________________
१०८
काव्यमाला।
यस्य वर्णनेन न तदुक्तीनां विरोधः । उपपत्तिस्त्वर्थेऽस्मिन्विचारणीया । रसभावादिरर्थ इत्यत्र रसादिशब्दो रत्यादिपरः । तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्णरचनावाक्यप्रबन्धैः पदैकदेशैरवर्णात्मकै रागादिभिश्चाभिव्यक्तिमामनन्ति । तत्र वाक्यगतानां पदानां सर्वेषामपि खार्थोंपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समानेऽपि कुर्वद्रूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिदेव ध्वनिव्यपदेशहेतुत्वम् । यथा 'मन्दमाक्षिपति' (१२ पृष्ठे) इत्यत्र मन्दमित्यस्य । रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यञ्जकतावच्छेदककोटिप्रविष्टत्वमेव न तु व्यञ्जकत्वमिति यद्यपि सुवचम् , तथापि पदवाक्यविशिष्टरचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वमिति विनिगमनाविरहेण घटादौ दण्डचक्रादेः कारणत्वस्येव प्रत्येकमेव व्यञ्जकतायाः सिद्धिरिति प्राञ्चः ।
वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वमेव न रसाभिव्यञ्जकत्वम् । गौरवान्मानाभावाच । नहि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं
उपपत्तिस्त्वर्थे इति । विभावादिप्रतीते रसप्रतीतेश्च विद्यमानस्य सूक्ष्मकालान्तरखरूपस्य क्रमस्य सहृदयेनाकलने तस्य विगलितवेद्यान्तरखानापत्त्या रसत्वभङ्गापत्तिः । विगलितवेद्यान्तरलं च सकलसहृदयानुभवसाक्षिकमिति तवापि संमतमिति तदुपपत्तिर्बोध्या। नव्यास्तु-वक्तृवैशिष्ट्यप्रकरणादिज्ञानसहितस्यैव व्यञ्जकलात्तत्सहितविभावादिज्ञानोत्तरं जायमानरसप्रतीतेर्विभावादिज्ञानापेक्षया विद्यमानक्रमालक्षणेन चालक्ष्यक्रमत्वम् । तच्च प्रकरणाद्विज्ञानविलम्बेन विभावादिज्ञानविलम्बेऽपि पूर्वोदाहरणेऽक्षतमेव । नहि विभावादिज्ञानस्य तजनकस्य च क्रममादायालक्ष्यक्रमलम् । अपि तु तज्जन्यस्य । एतदेवा. भिप्रेत्य 'अर्थशक्तिमूलस्य द्वादशभेदाः' इत्यभिनवगुप्तोक्तियत्किंचिद्वाच्यार्थापेक्षया क्रमोऽपि गृह्यत इत्यभिप्रेत्य लक्ष्यक्रमबोक्तिर्यथाकथंचिन्नेया । नहि विभावादिप्रतीतिरहितयत्किंचिद्वाच्यार्थमात्रप्रतीतौ विगलितवेद्यान्तरता सहृदयानुभवसाक्षिका । येन तत्क्रमग्रहणेऽपि रसखहानिः स्यादित्याहुः। रसभावादिरर्थ इत्यत्रेति । अभिनवगुप्तवाक्य इत्यर्थः । अन्यथा तदसंगतिः स्पष्टैवेति भावः । कस्यचिदेव पदस्य । यथेति । प्रतिपादितमधस्तात् । अभ्यर्हितत्वाद्रचनाशब्दस्य पूर्वनिपातः । कोटीति । रचनाविशिष्टपदत्वादिना व्यञ्जकत्वमिति भावः । इति इत्यत्र । घटादाविति । दण्डविशिष्टचकादेश्चक्रादिविशिष्टदण्डादेर्वा कारणवमित्यत्र विनिगमनाविरहेण यथा कारणतायाः प्रत्येकपर्याप्तिस्तथात्र व्यञ्जकताया इति भावः । नव्यमतमाह-वर्णेति । मनीति ।