________________
रसगङ्गाधरः।
नास्तीत्यस्ति नियमः । इन्द्रियत्रये व्यभिचारात् । इत्थं च खखव्यञ्जकोपनीतानां गुणिनां गुणानामुदासीनानां च यथा परस्परोपश्लेषेणौदासीन्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्गुणानां चाभिव्यक्तिविषयतेति तु नव्याः । उदाहरणं तु 'तां तमाल' इत्यादि प्रागुक्तमेव (६४ पृष्ठे ) वाक्यस्य व्यञ्जकतायामपि 'आविर्भूता यदवधि' इत्यादि च (३४ पृष्ठे )। प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान्निदर्शनानि प्रसिद्धानि । मन्निर्मिताश्च पञ्च लहयों भावस्य । पदैकदेशस्य च 'निखिलमिदं जगदण्डकं वहामि' ( ४२ पृष्ठे ) इति करूपतद्धितो वीररसस्य प्रागेवोदाहृतः । एवं रागादिभिरपि व्यङ्ग्यत्वे सहृदयहृदयमेव प्रमाणम् । एवमेषां रसादीनां प्राधान्येन निरूपितान्युदाहरणानि । गुणीभावे तु वक्ष्यन्ते, नामानि च । तत्र प्राधान्य एवैषां रसादित्वम् । अन्यथा तु रत्यादित्वमेव । नामनि रसपदं तु रत्यादिपरमित्येके । अस्त्येव रसादित्वं किं तु न ध्वनिव्यपदेशहेतुत्वमित्यपरे ॥
इति महोपाध्यायपदवाक्यप्रमाणपारावारपारीणश्रीपेरमभट्टस्य ___ सूरेः सूनुना पण्डितराजजगन्नाथेन निर्मिते रसगङ्गाधरे
रसनिरूपणात्मकं पूर्वमाननम् ।
भावस्य तद्व्यङ्ग्यसंबन्धिप्रबन्धादिरूपव्यञ्जकस्य । उदाहरणानीति शेषः । पदैकदेशस्य चेति । चस्त्वर्थे । उदाहरणमिति शेषः । वीररसस्येत्यस्य व्यजक इति शेषः । रागादिभिरपीति । रसस्येति शेषः । वक्ष्यन्ते इत्यत्र उदाहरणानीत्यस्यानुषङ्गः, तस्य चाग्रे नामानीति । रसवदित्यत्रेत्यर्थः ॥
माननप्रकाशः।