________________
रसगङ्गाधरः ।
अत्र मुनिगुरुशब्दयोरुपलक्षणपरतया राजादेरपि ग्रहणम् । अथात्र किं व्यङ्ग्यम्
'व्यानम्राश्चलिताश्चैव स्फारिताः परमाकुलाः ।
पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः ॥' अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम् , चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम् , स्फारिततया अलौकिकशौर्यश्रवणप्रयोज्यमर्जुने सहर्षत्वम् , परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसहदेवयोरौत्सुक्यं च व्यञ्जयन्तीभिर्ट ग्भिः पाञ्चाल्या बहुविषयाया रतेरमिव्यञ्जनाद्रसाभास एवेति नव्याः । प्राञ्चस्त्वपरिणेतृबहुनायकविषयत्वे रतेराभासतेत्याहुः । तत्र शृङ्गाररस इव शृङ्गाराभासोऽपि द्विविधः । संयोगविप्रलम्भभेदात् । संयोगाभासस्त्वनुपदमेवोदाहृतः । विप्रलम्भाभासो यथा'व्यत्यस्तं लपति क्षणं क्षणमथो मौनं समालम्बते
सर्वस्मिन्विदधाति किं च विषये दृष्टिं निरालम्बनाम् । श्वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृतिं
वैदेहीकमनीयताकवलितो हा हन्त लकेश्वरः ॥' अत्र सीतालम्बनेयं लकेशगता विप्रलम्भरतिरनुभयनिष्ठतया जगद्गुरुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्यादिभिरुक्तिभिर्व्यज्यमानैरुन्मादश्रममोहचिन्ताव्याधिभिस्तथैवाभासतां गतैः प्राधान्येन परियोप्यमाणा ध्वनिव्यपदेशहेतुः । एवं कलहशीलकुपुत्राद्यालम्बनतया वीत
मिति शेषः । प्रथमोदाहरणसंग्रहायाह-अत्रेति । अत्र वक्ष्यमाणोदाहरणे किं रसो वा तदाभासो वेत्यर्थः । स्फारिता विस्तृताः । प्रथमा इत्यनेन पूर्व दर्शनाभावः सूचितः । सभक्तिवमित्यादिद्वितीयान्तानां व्यञ्जयन्तीभिरित्यनेनान्वयः । भास एवेत्यस्य व्यङ्ग्य इति शेषः । एवेन रसव्यवच्छेदः । प्राश्चस्त्विति । अत्रारुचिबीजं तु रत्यनौचित्यस्यापरिणीते इवात्रापि सत्त्वम् । नहि लक्षणे तथा निवेशोऽस्तीति । तत्र रसाभासानां मध्ये । एकं क्षणमिति पूर्वान्वयि । अपरमुत्तरान्वयि । ननु सीतायास्तदभावेऽपि लङ्केशे तत्सत्त्वमत आह-जगदिति । उक्तिभिरिति । यथाक्रममिति शेषः । तथैव जगदुरुपत्नीविषयकतयैव । प्राधान्येनेति । तथा च न तद्भावाभासध्वनिवमिति भावः । कलहशीलेति । अवीतरागादिविषयमिदम् । अत एवाह-वीतेति । कदर्यो