________________
काव्यमाला। रागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानंधिकारिचाण्डालादिगतत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्साहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः , गुर्वाद्यालम्बनतया च हासः, महावीरगतत्वेन भयम् , यज्ञीयपशुवसासृङ्मांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः । विस्तृतिभयाच्चामी नेहोदाहृताः सुधीभिरुनेयाः । एवमेवानुचितविषया भावाभासाः । यथा
'सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता
विद्यापि खेदकलिता विमुखीबभूव । सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयादधिदेवतेव ॥ गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्यचिदतिप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयमुक्तिः । अत्र च खात्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेषु चिरसेवितायां विद्यायां च कृतघ्नत्वम् , अस्यां च लोकोत्तरत्वमभिव्यज्यमानं व्यतिरेकवपुःस्मृतिमेव पुष्णातीति सैव प्रधानम् । एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्यधिदेवतोपमापि । एषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभासः । यदि पुनरियं तत्परिणेतुरेवोक्तिस्तदा भावध्वनिरेव ॥
अथ भावशान्तिःभावस्य प्रागुक्तखरूपस्य शान्ति शः ॥ स चोत्पत्त्यवच्छिन्न एव ग्राह्यः । तस्यैव सहृदयचमत्कारित्वात् । उदाहरणम्'मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय । इति तन्व्याः पतिवचनैरपायि नयनाजकोणशोणरुचिः ॥'
निन्द्यः । कातरो भीतः । एवमेव रसाभासवदेव । खेदकलिता खेदव्याप्ता। विनिगमनाविरहादाह-अन्यस्येति । अत्र च खात्मत्यागेति विषयविद्योभयकर्तृकखत्यागेन विषयविद्ययोः कृतघ्नत्वम् , नायिकाकर्तृकखीयात्यागेन चास्यां नायिकायां लोकोत्तरत्वमित्यर्थः । एवं स्मृतिमेव पुष्यतीत्यर्थः । स च नाशश्वोत्पत्त्यवच्छिन्न एवोत्पत्तिकाला