________________
१००
काव्यमाला। चात्र चकितनयनामित्यनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेरनुभयनिष्ठतेत्याभासताहेतुर्वाच्यः । अस्याश्च चिराय तस्मिन्नासक्ताया अन्तःपुरे परपुरुषागमनस्यात्यन्तमसंभावनया क एष मां बोधयतीत्यादावुचित एव त्रासः । अनन्तरं च परिचयाभिव्यक्त्या सोऽयं मत्प्रियो मदर्थं प्राणानपि तृणीकृत्यागत इति ज्ञानादुत्पन्नं हर्षमभिव्यञ्जयत्स्मेरवदनामिति विशेषणं रतिं तदीयामपि व्यनक्ति। परंतु प्राधान्यं नायकनिष्ठाया एव रतेः सकलवाक्यार्थत्वात् । यथा वा'भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु ।
तरुणेषु विलोचनाजमालामथ बाला पथि पातयांबभूव ॥' अत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैयुवभिरनुगम्यमानायाः कस्याश्चिद्भवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्यमाना रतिर्बहुवचनेन बहुविषया गम्यत इति भवत्ययमपि रसाभासः । यथा वा'भुजपञ्जरे गृहीता नवपरिणीता वरेण वधूः ।।
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥' अत्र रतेर्नववध्वा मनागप्यस्पर्शादनुभवनिष्ठत्वेनाभासत्वम् । तथा चोक्तम्
'उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च । बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ॥' इति ।
स्पर्शेति । स्पर्शकृतत्रासेत्यर्थः । अनुभयेति । नायके सत्त्वेऽपि नायिकायामभावादिति भावः । हेतुरिति । तथा च तृतीयोदाहरणमेतन्नाद्यस्येति भावः । समाधत्ते-अस्याश्चेति । चो यत इत्यर्थे । व्यनक्तीत्यत्रास्यान्वयः । रतिमिति । नायिकासंबन्धिनी रतिमपीत्यर्थः । हर्षसमुच्चायकोऽपिः । नन्वेवं विनिगमनाविरहोऽत आह-परंत्विति। नायिकानिष्ठा तु मेरेति पदमात्रव्यङ्ग्यवान वाक्यार्थः । तथा चाद्योदाहरणतास्य सुस्थेति भावः । द्वितीयोदाहरणमाह-यथा वेति । भवनं खगृहम् । विज्ञानाय तदङ्गीकाराय । तेषु तरुणेषु । करुणायामन्वयः। परमेत्यस्य तरुणसंबन्धीत्यादिः । बद्विति । तरुणेष्विति बहित्यर्थः । तृतीयोदाहरणमाह-यथा वेति । भुजेति रूपकम् । उपेति । आभासत्व