________________
रसगङ्गाधरः ।
९९
अथ रसाभासः- -तत्र
अनुचितविभावालम्बनत्वं रसाभासत्वम् ॥ विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम् । यत्र तेषामयुक्तमिति धीरिति केचिदाहुः । तदपरे न क्षमन्ते । मुनिपत्न्यादिविषयकरत्यादेः संग्रहेऽपि बहुनायकविषयाया अनुभयनिष्ठायाश्च रतेरसंग्रहात् । तत्र विभावमतस्यानौचित्यस्याभावात् । तस्मादनौचित्येन रत्यादिर्विशेषणीयः । इत्थं चानुचितविभावालम्बनाया बहुनायकविषयाया अनुभयनिष्ठायाश्च संग्रह इति । अनौचित्यं च प्राग्वदेव । तत्र रसाद्याभासत्वं रसत्वादिना न समानाधिकरणम् । निर्मलस्यैव रसादित्वात् । ' हेत्वाभासत्वमिव हेतुत्वेन' इत्येके । ‘नह्यनुचितत्वेनात्महानिः अपि तु सदोषत्वादाभासव्यवहारः । अश्वाभासादिव्यवहारवत्' इत्यपरे ।
1
उदाहरणम्
'शतेनोपायानां कथमपि गतः सौधशिखरं सुधानखच्छे रहसि शयितां पुष्पशयने ।
विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां सनिःश्वासं॰ श्लिष्यत्यहह सुकृती राजरमणीम् ॥' अत्रालम्बनमनुचितप्रणया राजरमणी । रहोरजन्याद्युद्दीपनम् | साहसेन राजान्तःपुरे गमनम् प्राणेषूपेक्षा, निःश्वासाश्लेषादयश्चानुभावाः । शङ्कादयः संचारिणः । निषिद्धालम्बनकत्वाच्चास्या रतेराभासत्वं रसस्यं । न
सप्तमी । तत्र निरूपणीये रसाभासे । यत्र विभावादौ । तेषां लोकानाम् । आदिना गुरुपत्न्यादिसंग्रहः । तत्र तयोः । तस्मादिति । तथा चानुचितविभावालम्बनकरतिलं तत्त्वं ज्ञेयम् । आदिना ह्रासादिपरिग्रहः । इत्थं च तथाविशेषणे च । इतिरपरमतसमाप्तौ । चस्त्वर्थे । तत्र रसाभासेषु । आदिना भावपरिग्रहः । निर्मलस्य निर्दुष्टस्य । हेतुलेनेत्यस्य न समानाधिकरणमित्यस्यानुषङ्गः । नन्वत्र मते दुष्टो हेतुरितिवद्दुष्टो रस इत्यादिव्यवहारानुपपत्तिरतो मतान्तरमाह -नहीति । आत्महानिः खरूपहानिः । अश्वाभासेति । अश्व इति भावः । सौधेति । सुधानिर्मितराजगृहोपरितन प्रदेशमित्यर्थः । फेनस्यात्यन्तखच्छत्वादुक्तिः । पुष्पशयने पुष्पशय्यायाम् । अहहेति शङ्कायाम् । अनुचितेति । अनुचितः प्रणयो यस्यामित्यर्थः । यस्या इति वा । इदमाद्योदाहरणमित्याहनिषिद्धेति । अस्या नायकनिष्ठायाः । परेत्यस्य विबोध्येति । बोधितेत्यादिः ।