________________
काव्यमाला।
वितिष्ठन्ते युष्मन्नयनपरिपातोत्कलिकया ___ वराकाः के तत्र क्षपितमुर नाकाधिपतयः ॥' अत्रापमानसहनभगववारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर्ब्रह्मादिगता भगवदालम्बना रतिर्नाभिव्यज्यते । अपि तु भगवदैश्वर्यमवाङ्मनसगोचर इति चेत्तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वमक्षतमेव । इदं वोदाहरणम्'न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥ अत्र धनाद्यपेक्षाशून्यस्य भगवद्गन्तपाताभिलाषो हि भगवत्यत्यन्तानुरक्तिं व्यनक्ति । एवं संक्षेपेण निरूपिता भावाः ॥ ___ अथ कथमस्य संख्यानियमः । मात्सर्योद्वेगदम्भाविवेकनिर्णयक्लैब्यक्षमाकुतुकोत्कण्ठाविनयसंशयधार्थ्यादीनामपि तत्र तत्र लक्ष्येषु दर्शनात् इति चेत् , न । उक्तेष्वेवैषामन्तर्भावेन संख्यान्तरानुपपत्तेः । असूयातो मात्सर्यस्य, त्रासादुद्वेगस्य, अवहित्थाख्याद्भावाद्दम्भस्य, अमर्षादीर्ष्यायाः, मतेविवेकनिर्णययोः, दैन्याक्लैब्यस्य, धृतेः क्षमायाः, औत्सुक्यात्कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात्संशयस्य, चापलाद्धार्श्वस्य च वस्तुतः सूक्ष्मे भेदेऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात् । मुनिवचनानुपालनस्य संभव उच्छृङ्खलताया अनौचित्यात् । एषु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश्च भवन्ति । तथा हि-ईर्ष्णया निवेदं प्रति विभावत्वम्, असूयां प्रति चानुभाक्त्वम् । चिन्ताया निद्रां प्रति विभावत्वम् , औत्सुक्यं प्रति चानुभावतेत्यादि खयमूह्यम् ।
द्वारपालौ । ते अनिर्वचनीयप्रभावास्ते भवद्वारि भवनेत्रपातोत्कण्ठया कीटा इव वितिधन्त इत्यन्वयः । वराका दीनाः। नाभिव्यज्यत इति । धनाद्यभिलाषेणापि तदुपपत्तेरिति भावः । इतीत्यस्याभिव्यज्यत इत्यत्रानुषङ्गः । चेत् यद्यपि । नन्वस्या अप्राधान्येन कथं तत्त्वमत आह-इदं वेति । अस्य भावस्य । अन्तर्भावे हेतुमाह-असूयात इति । ननु सूक्ष्ममेदप्रयुक्तमेदः कुतो नात आह-मुनीति । संचारीति षष्ठ्यर्थे