________________
९२
काव्यमाला ।
इष्टासिद्धिराजगुर्वाद्यपराधादिजन्योऽनुतापो विषादः ॥
उदाहरणम्
'भास्करसूनावस्तं याते जाते च पाण्डवोत्कर्षे । दुर्योधनस्य जीवित कथमिव नाद्यापि निर्यासि ॥'
अत्र खापकर्षपरोत्कर्षयोदर्शनं विभावः । जीवितनिर्याणाशंसा, तदाक्षिप्तं वदननमनादि चानुभावः । अस्मिन्नेव च विषादध्वनौ दुर्योधनस्येत्यर्थान्तरसंक्रमितवाच्यध्वनिरनुग्राहकः । न चात्र त्रासभावध्वनित्वं शक्यम् । परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात् । नापि चिन्ताध्वनित्वम् । युद्धा मरिष्यामीति तस्य व्यवसायात् । नापि दैन्यध्वनित्वम् । सकलसैन्यक्षयेऽपि विपदस्तेनागणनात् । न वा वीररसध्वनित्वम् । मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात् । इदं पुनरत्र नोदाहार्यम् —
'अयि पवनरयाणां निर्दयानां हयानां श्थय गतिमहं नो संगरं द्रष्टुमीहे । श्रुतिविवरममी मे दारयन्ति प्रकुप्यद्भुजगनिभभुजानां बाहुजानां निनादाः ॥'
अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः, लेशतया प्रतीतौ वा त्रास एव । आनुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात् । अधुनैवास्य लाभो ममास्त्वितीच्छा औत्सुक्यम् ॥
विशेषसमर्थनमत्र बोध्यम् । भास्करसूनौ कर्णे । दुर्योधनस्य जीवितेति संबुद्धिः । हे बीरेत्यर्थः । इवशब्दो वाक्यालंकारे । निर्यासि गच्छसि । विषादध्वनित्वं द्रढयति-अस्मिन्नेवेति । वाच्यध्वनिरिति । लक्ष्यतावच्छेदकं च कर्णदर्शनावधिजीवित्वम्, एकादशाक्षौहिणीपतिवन्द्यत्वम्, प्रतापेनागणितपाण्डव तेजस्त्वम्, पाण्डवानां वनवासादिदातृत्वं वा अतिदुःखित्वं व्यङ्ग्यम् । परेति । उत्कृष्टेत्यर्थः । युङ्केति । तथा च किं भविष्यतीत्याद्याकारायास्तस्या असंभव इति भावः । तेनागेति तथा च तद्विभावस्वाभाव इति भावः । उत्साहस्येति । तत्स्थायिभावः । अयीति कोमलामन्त्रणे । 'अमी मे' इति पाठः । बाहुजानां क्षत्रियाणाम् । अस्य पदार्थस्य । निपतदिति ।