________________
रसगङ्गाधरः।
इष्टविरहादिरत्र विभावः । त्वराचिन्तादयोऽनुभावाः । यदाहुः
'संजातमिष्टविरहादुद्दीप्तं प्रियसंस्मृतेः। निद्रया तन्द्रया गात्रगौरवेण च चिन्तया ॥
अनुभावितमाख्यातमौत्सुक्यं भावकोविदः ॥' इति । उदाहरणम्
'निपतद्वाष्पसंरोधमुक्तचाञ्चल्यतारकम् ।
कदा नयननीलाजमालोकेय मृगीदृशः ॥' अनातिशयजनिता चित्तस्य संभ्रमाख्या वृत्तिरावेगः ।। उदाहरणम्'लीलया विहितसिन्धुबन्धनः सोऽयमेति रघुवंशनन्दनः।
दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलंक्षयः ॥ . एषा खात्मनि मन्दोदर्या उक्तिः । रघुनन्दनागमनमत्र विभावः । कुत्र यामीत्येतद्व्यङ्ग्यस्थैर्याभावोऽनुभावः। न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम् । कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनोद्वेगस्येव चिन्ताया अप्रत्यायनात् । परं त्वावेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति ।
चिन्तोत्कण्ठाभयविरहेष्टानिष्टदर्शनश्रवणादिजन्यावश्यकर्तव्यार्थप्रतिसंधानविकला चित्तवृत्तिजडता॥
इयं च मोहात्पूर्वतः परतश्च जायते । यदाहुः
'कार्याविवेको जडता पश्यतः शृण्वतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ॥
निपतद्बाष्पसंरोधेन मुक्तचाञ्चल्यास्तारका यस्येत्यर्थः । आलोकेय । लिडो रूपम् । उद्वे गस्येवेति । उद्वेगावेगौ पर्यायौ । चिन्तोत्कण्ठेति । 'चिन्तोकर्ष' इति पाठान्तरम् । इष्टानिष्टेति । प्रियानिष्ठेत्यर्थः । तद्विभेति । जडताविभावा इत्यर्थः । रुजा