________________
रसगङ्गाधरः।
उदाहरणम् - 'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् । , अधुना खलु हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि ॥ प्रियविरहोऽत्र विभावः । वचनविरामोऽनुभावः । हन्तपदस्यात्रात्यन्तमुपकारकत्वाद्वाक्यव्यङ्ग्योऽप्ययं भावः पदव्यङ्ग्यतामावहति । एतेन भावस्य पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यमिति परास्तम् । दयितस्य गुणाननुस्मरन्तीत्यनेन व्यज्यमानं चरमावस्थायामपि तस्या दयितगुणविस्मरणं नाभूदिति वस्तु विप्रलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोषकम् । अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघटकेन नायिकादेः प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः । कवयः पुनरमुं प्राधान्येन न वर्णयन्ति । अमङ्गलप्रायत्वात् ।
संदेहाद्यनन्तरं जायमान ऊहो वितर्कः॥ स च निश्चयानुकूलः । ... 'यदि सा मिथिलेन्द्रनन्दिनी नितरामेव न विद्यते भुवि । __ अथ मे कथमस्ति जीवितं न विनालम्बनमाश्रितस्थितिः ॥'
खात्मनि भगवतो रामस्यैषोक्तिः । भुवि सीतास्ति न वेति संदेहोऽत्र विभावः । भ्रूक्षेपशिरोङ्गुलिनर्तनमाक्षिप्तमनुभावः । न चासौ चिन्तेति शक्यं वदितुम् । चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात् । किं भविष्यति कथं भविष्यतीत्याद्याकारायाश्चिन्ताया इदमित्थं भवितुमर्हति प्रायश इत्याकारस्य वितर्कस्य विषयवैलक्षण्योपलम्भाच्च । न विनेत्यादिनोक्तोऽर्थान्तरन्यासोऽप्यस्मिन्नेवानुकूलः ।
न। न प्रतिवदतीत्यर्थः । अत्र मरणे हन्तपदस्य दुःखातिशयबोधकलादिति भावः । प्रकृतेऽनुपदं वक्ष्यमाणरीत्या विप्रलम्भासंभवादाह-शोकेति । करुणस्थायीभावस्ये. त्यर्थः। अस्य पुरोऽनभिव्यकेराह-चरममिति । अत एवैतद्धनिखम् । तदेवाह-अयं
चेति। नन्वस्य प्रधानोदाहरणं कुतो न दत्तमत आह-कवय इति । पुनःशब्दो हिश. ब्दार्थे । आदिना विपर्ययपरिग्रहः। आलम्बनमाधारभूतम् । ननु नियमे तदभावेऽपि लक्षणे तदनिवेशात्प्रकृते तत्संभव एवात आह-किं भविष्यतीति । ननु न विनेत्यादिनार्थान्तरन्यासस्य प्रतीतेः कथं ध्वनिलमत आह-न विनेत्यादीति । सामान्येन