________________
रसगङ्गाधरः ।
८९
अनुभावौ । ननु क्रोधामर्षयोः स्थायिसंचारिणोर्भावयोः किं मेदकमिति चेत्, विषयतावैलक्षण्यमेवेति गृहाण । तत्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम् ।
व्रीडादिभिर्निमित्तैर्हर्षाद्यनुभावानां गोपनाय जनितो भावविशे
पोsवहित्थम् ॥
तदुक्तम् —
'अनुभावपिधानार्थेऽवहित्थं भाव उच्यते । तद्विभाव्यं भयव्रीडाधार्श्वकौटिल्यगौरवैः ॥'
'यथा
'प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेरुपाकर्ण्य विद्यत्पुलकितकपोला कुलवधूः । विषज्वालाजालं झगिति वमतः पन्नगपतेः फणायां साश्चर्यं कथयतितरां ताण्डवविधिम् ॥' अत्र व्रीडा विभावः । तादृशकालियकथाप्रसङ्गोऽनुभावः । एवं भया
दिप्रयोज्यमप्युदाहार्यम् ।
अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृ
तिरुग्रता ॥ यदाहु:
--
'नृपापराधोऽसद्दोषकीर्तनं चोरधारणम् । विभावाः स्युरथो बन्धो वधस्ताडनभर्त्सने ॥ एते यत्रानुभावास्तदौग्र्यं निर्दयतात्मकम् ॥' इति ।
र्थंकजुषा णमुला च गम्यं तदाह - निर्निमेषेति । इदमुपलक्षणम् । मौनमप्यनुभावो बोध्यः । किं भेदकमिति । उक्तकारणकार्ययोस्त्वैक्यमेवेति भावः । तत्र तु विषयतावैलक्षण्ये तु । कार्येति । क्रोधामर्षयोर्यथाक्रममित्यादिः । हर्षाद्यनुभावानामिति । हर्षादिजन्यानुभावानामित्यर्थः । भावविशेषोऽभिप्रायविशेषः । अनुभावेत्यस्य हर्षा - दिजन्येत्यादिः । तदवहित्थम् । भयादिभिर्विभाव्यं जन्यमित्यर्थः । गुरुषु तत्समीपे । गोपानां प्रसङ्गे इत्याद्यन्वयः । पन्नगपतेः कालियस्य । आश्चर्यमाश्चर्येण सहितम् । ताण्डव - विधिं यदुपतेरिति भावः । तादृशेति । विषवमनकर्नित्यर्थः । असदिति ।