________________
रसगङ्गाधरः ।
गीष्पतिना गिरामधिदेवतयापि साकमहं वदिष्यामीति वचनेनाभिव्यक्तस्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः । न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः ।
श्रमादिप्रयोज्यं चेतः संमीलनं निद्रा ॥ नेत्रनिमीलनगात्रनिष्क्रियत्वादयोऽस्यानुभावाः ।
उदाहरणम्
'सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा । बोधितापि बुबुधे मधुपैर्न प्रातराननजसौरभ लुब्धैः ॥' रात्रिजागरणश्रमोऽत्र विभावः । मधुपैर्बोधाभावोऽनुभावः । शास्त्रादिविचारजन्यमर्थनिर्धारणं मतिः ॥ अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयोऽनुभावाः । उदाहरणम्
'निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् । अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः ॥'
८५
'शरीरमेतज्जलबुद्वदोपमं -' इत्यादिशास्त्रपर्यालोचनमत्र विभावः । हन्तपदगम्या खनिन्दा राजसेवादिविरतिर्वितृष्णता चानुभावः । झगिति मतेरेव चमत्काराद्धनिव्यपदेशहेतुता, न शान्तस्य । विलम्बेन प्रतीतेः ।
रोगविरहादिप्रभवो मनस्तापो व्याधिः ॥ गात्रशैथिल्यश्वासादयोऽत्रानुभावाः ।
यदाहु:
'एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः । वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः । इह तत्प्रभवो भावो व्याधिरित्यभिधीयते ॥'
इतीति गर्वाकारः । सोल्लुण्ठं साभिप्रायम् । वचनेन आ मूलादित्यादि मदन्य इत्यन्वेन । दोषा रात्रिः । ये ज्वरादय इति । लोके इति शेषः । इह शास्त्रे । तत्
८ रस०