________________
annnnnnnnn
कर्षणार्थस्तेनोत्तरत्र द्वयगनुवर्तते ॥नावः॥७।३ । १०४ ॥ अर्धात् परात् समासाद् द्विगोश्वालुकोट् । अर्धनावम् । अर्धनावी । पश्चनावम् । अलुक इत्येव । द्विनौः ।। गोस्तत्पुरुषात् ।।७।३।१०५॥ अलुकोट् । राजगवी । तत्पुरुषात् इति किम् । चित्रगुः। अलुक इत्येव । पश्चगुः पटः ॥राजन्सखेः॥७।३।१०६।। तत्पुरुषपदद् । देवराज: । राजसखः । नान्तनिर्देशादिह न । मद्रराझी । पृथग्योगादलुक इति निवृत्तम् । पञ्चराजः॥राष्ट्राख्याद् ब्रह्मणः॥७ ३।१०७॥ तत्पुरुषाद । मुराष्ट्रब्रह्मः। राष्ट्राख्यादिति किम् । देवब्रह्मा नारदः। आख्याग्रहणं राष्ट्रवाच्यर्थम् ।। कुमहद्भ्यां वा॥७।३।१०८॥ ब्रह्मान्तात् तत्पुरुषादद् । कुब्रह्मः। कुब्रह्मा । महाब्रह्मः। महाब्रह्मा ॥ ग्रामकोटात् तक्ष्णः ॥७।३।१०९॥ तत्पुरुषाद । ग्रामतक्षः। कौटतक्षः ॥ गोष्ठातेः शुनः ॥७।३।११०॥ तत्पुरुषादट् । गोष्ठश्चः । अतिश्चो वराहः॥प्राणिन उपमानात् ॥७।३ । १११ ॥ शुनस्तत्पुरुषादद । व्याघ्रश्वः । अत एव वचनात् श्वनशब्दस्य परनिपातः । माणिन उपमानादिति पूर्वपदविज्ञानादिह न । वानरः श्वेव वानरचा । पाणिन इति किम् । एलकवा । उपमानभूतश्चान्तात् तत्पुरुषादिच्छन्त्येके । तन्मते वानरवेत्यत्र समासान्तविधेरनित्यत्वान्न ॥ अप्राणिनि ।।७।३ । ११२॥ य उपमानभूतः श्वा तदन्तात् तत्पुरुषादद् । आकर्षश्वः । अपाणिनीति किम् । वानरवा ॥ पूर्वोत्तरमृगाच सक्थ्नः ॥७।३ । ११३ ॥ उपमानार्थाच तत्पुरुषादद् । पूर्वसक्थम् । उत्तरसक्यम् । मृगसक्यम् । फलकसक्थम् ॥ उरसोऽग्रे॥७।३।११४ ॥ तत्पुरुषाद । अश्वोरसम् । सेमायाः मुखमित्यर्थः । अश्वोरसम् प्रधानमियर्थः ॥ सरोऽनोश्मायसो जातिनाम्नोः ॥७।३ । ११५ ॥ तत्पुरुषादट् यथासम्भवम् । जालसरसम् । उपानसम् । स्थूलाश्मः । कालायसम् । जातिनाम्नोरिति किम् । परमसरः ॥ अहः॥७॥२ । २१६ ॥ तत्पुरुषाद । परमाहः । रात्राहाहः पुंसि ॥ सङ्ख्यातादहश्च वा ॥७।३।११७॥ अहस्तत्पुरुषादद् । सरख्याताः । सरूयाताहः । चकार उत्तरत्राकादेशस्याट्सनियोगार्थः । अन्यथा हि अटोऽपवादोकादेशो कि