________________
हेमप्रभा. ॥ ५१ ॥
ख्यातमाख्याचेन सातसे | अनीतपित्रता । शन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्त्तरि समासाभिधेये । कुरुको वक्ता गतप्रत्यागतादयः । गतप्रत्यागतम् । क्रयकयिका । शाकपार्थिवादयः । शाकपार्थिवः । त्रिभागः । सर्वश्वेतः । अविहितलक्षणस्तत्पुरुषोऽत्र ज्ञेयः । यच्चेह लक्षणे नानुपपन्नं तत्सर्वं निपातनात् सिद्धम् । इतिशब्दः स्वरूपावधारणार्थः तेन परममयूरव्यंसक इति न समासः । उत्तरपदेन भवत्येवेत्यन्ये । मयूरव्यंसकमिय इत्यादि । बहुवचनाद्विस्पष्टपडुरित्यादयः ॥ राजदन्तादिषु ॥ ३ । १ । १४९ ।। अमाप्तप्राग्निपातं प्राक् स्यात् । राजदन्तः । लिप्तवासितम् ॥ कडारादयः क र्मधारये || ३ | १ | १५८ ॥ प्राग्वा स्युः ॥ कडारजैमिनिः । जैमिनिकडारः । काणद्रोणः । द्रोणकाणः ॥ जातमहद्वृद्धादुक्ष्णः कर्मधारयात् ॥ ७ । ३ । ९५ ।। अत् समास्त्रान्तः । जातोक्षः । महोक्षः । वृद्घोक्षः । कर्मधारयादिति किम् । जातस्योक्षा जातोक्षा | स्त्रियाः पुंसो द्वन्दाच्च ।। ७ । ३ । ९६ ।। कर्मधारयाच्चात् समासान्तः । स्त्रीपुंसौ । स्त्रीपुंसः । शिखण्डी । द्वन्द्वाच्चेति किम् । स्त्रियाः पुंमान् स्त्रीपुंमान् ॥ द्विगोरनहोऽद् ॥ ७ । ३ । ९९ ॥ समाहारार्थात् । पञ्चतक्षी । पञ्चतक्षम् । व्यहः । द्विगोरिति किम् । समहः । समाहार इत्येव । द्व्युक्षा । अह्न इदमविधानं समाहारे परस्यापि सर्वाशेत्यटो बाधनार्थं तस्मिन् हि सत्यादेशोऽपि स्यात् ॥ द्विरायुषः ॥ ७ । ३ । १०० ।। समाहारार्थात् द्विगोरट् । द्व्यायुषम् । त्र्यायुषं । समाहारइयेव । व्यायुष्प्रियः ॥ वाञ्जलेरलुकः ॥ ७ । ३ । १०१ ॥ द्वित्रिभ्यां परात् अञ्जलेर्द्विगोरट् न चेत् स तद्धितलुगन्तः । व्यञ्जलम् । व्यञ्जलि । त्र्यञ्जलमयम् । त्र्यञ्जलिमयम् । अलुक इति किम् । व्यञ्जलिर्घटः । नित्योऽयं विधिरित्येके । खार्या वा ॥ ७ । ३ । १०२ ॥ द्विगोरलुकोट् । द्विखारम् । द्विखारि । केचित् पुंस्त्वमपीच्छन्ति । द्विखारिः । स्त्रीत्वमप्यन्ये । द्विखारी । पञ्चखारघनः । पञ्चखारी धनः । द्विगोरित्येव । उपखारि । अलुक इत्यस्य प्रत्युदाहरणं नास्ति विशेषाभावात् ॥ वार्धाच्च ॥ ७ । ३ । १०३ ॥ खार्याः समासादलुकोट् । अखारम् । अर्धसारी । प्रतिपदोक्तग्रहणानेह । अर्धखारी। विधानसामर्थ्यादन्तस्य न स्त्रियां दृत्तिः । चकारो द्विगोरनु
समासप्रकरणम्.
॥ ५१ ॥