________________
SASRHARASH
। कतमगार्यः । जातिप्रश्न एवेति नियमार्थ वचनम् । कतरः शुक्लः । कतमो गन्ता ॥ कि क्षेपे ॥३।१ । ११०॥ कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च । कि राजा । किं गौः। न किमः क्षेपे इति समासान्तमतिषेधः । क्षेपे एवेति नियमार्थ वचनम् । तेन को राजा मथुरायामित्यत्र न ॥ पोटायुवतिस्तोककतिपयष्टिधेनुवशावेहहष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तप्रशंसारूढैर्जातिः॥३।१।१११॥ समासस्तत्पुरुषः कर्मधारयश्च । इभ्यपोटा । नागयुवतिः । अग्निस्तोकम् । दधिकतिपयम् । गोष्टिः । गोधेनुः। गोक्शा । गोहत् । गोवष्कयणी। कठपवक्ता । कठश्रोत्रियः । कठाध्यापकः । मृगधूर्तः। धूर्तग्रहणं प्रवृत्तिनिमित्ताश्रयंकुत्सायों समासार्थम् । गोमतल्लिका । गोत्र. काण्डम् । रूढग्रहणादिह न । गौ रमणीया । जातिरिति किम् । देवदत्ता पोटा । विशेष्यस्य जातेः पूर्वनिपातार्थ वचनम् ॥ चतुष्पाद गर्भिण्या ॥३।१।११२ ॥ समासस्तत्पुरुषः । कर्मधारयश्च गोगर्भिणी। जातिरित्येव । कालाक्षी गर्भिणी। चतुष्पादिति किम् । ब्राह्मणी गर्भिणी । पूर्वनिपातार्थ वचनम् ॥ युवा खलतिपलितजरदलिनैः।।३।१। १११॥ समासस्तत्पुरुषः कर्मधारयश्च । युवखलतिः । युवतिश्चासौ पलितो युवपलितः । युवजरन् । युववलिनः । पूर्वनिपातनियमार्थ वचनम् ।। कृत्यतुल्याख्यमजात्या ॥३।१।११४ ॥ समासस्तत्पुरुषः कर्मधारयश्च । भोज्योष्णम् । स्तत्यपटुः । तुल्यसन् । सदृशमहान् । अजायेति किम् । भोज्य ओदनः । जात्या समासस्याजातेः पूर्ववस्य च भतिषेधार्थ वचनम् ॥ कुमारः श्रमणादिना ॥३।१।११५॥ समासस्तत्पुरुषः कर्मधारयश्च । कुमारश्रमणा । कुमारपत्र जिता । श्रमणा प्रबजिता कुलटा गर्भिणी तापसी बन्धकी दासी एतैः स्त्रीलिङ्गैः स्त्रीलिङ्गः कुमारशब्द: समस्यते शेषैस्तुभयलि
। अत एव पाठापामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायो ज्ञाप्यते । पुल्लिङ्गैस्तु पूर्वनिपाते कामचारः । अभिरूपकपटुमदुपण्डितकुशलचपलनिपुणकुमारशब्दस्य पूर्वनिपातनियमार्थ सूत्रम् ॥ मयूरव्यंसकेत्यादयः ॥ ३ । १ । ११६ ॥ एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः । कम्बोजमुण्डः । एहीडादयोऽन्यपदार्थे । एहीडं कर्म । आ