________________
हेमप्रभा. ॥ ५२ ॥
ज्ञायेत । तथा च स्त्रियां ङीनं स्यात् ॥ सर्वाशस द्याव्ययात् ॥ ७ । ३ । ११८ ॥ अहन्नन्तात् तत्पुरुषादट् अह्नहः । सर्वाह्नः । पूर्वाह्नः । व्यहः । अत्यही कथा ॥ सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत् ॥ ७ । ३ । ११९ ।। सर्वादेश्व तत्पुरुषात् । सङ्ख्यातरात्रः । एकरात्रः । पुण्यरात्रः । वर्षारात्रः । दीर्घरात्रः । सर्वरात्रः । पूर्वरात्रः । द्विरात्रः । त्रिरात्रः । अतिरात्रः । एकग्रहणं सङ्ख्याग्रहणेनानेनैकस्याग्रहणार्थम् । तेन पूर्वसूत्रे एकस्याग्रहणम् । एकमहः एकाहम् || अद्विधानं ङयभावार्थम् । पुरुषायुषाद्विस्तावत्रिस्तावम् ॥ ७ । ३ । १२० ।। एते तत्पुरुषा अदन्ता निपात्याः । पुरुषायुषम् । द्विस्तावा । त्रिस्तावा वेदिः || श्वसोवसीयसः ॥ ७ । ३ । १२१ ।। तत्पुरुषादत् । श्वोवसीय सम् ॥ निसश्च श्रेयसः ॥ ७ । ३ । १२२ ।। श्वसश्च तत्पुरुषादत् । निःश्रेयसम् । श्वःश्रेयसम् ॥ नजन्ययात् सङ्ख्याया डः ॥ ७ । ३ । १२३ ।। तत्पुरुषात् । अदशाः । नित्रिंशः खड्गः । नञव्ययादिति प्रतिषेधे प्राप्ते प्रतिप्रसवार्थम् । सङ्ख्याया इति किम् । निःशकृत् । तत्पुरुषादित्येव । अत्रिः । डित्वमन्त्यस्वरादिलोपार्थम् ॥ सङ्ख्याव्ययादङ्गुलेः ॥ ७ । ३ । १२४ ।। तत्पुरुषात् डः । द्व्यङ्गुलम् । निरङ्गुलम् । तत्पुरुषादित्येव । अपाङ्गुलि | आत्माङ्गुलम्, प्रमाणागुलमुत्सेधाङ्गुलम्, इत्यत्र तु अङ्गुलशब्दः प्रमाणवाची प्रकृत्यन्तरम् ॥ नञ्तत्पुरुषात् ।। ७ । ३ । ७१ ॥ समासान्तो न । अनृक् । अराजा । तत्पुरुषादिति किम् | अधुरं शकटम् ॥ पुंवत्कर्मधारये ॥ ३ । २ । ५७ ।। परतः स्त्री अनूङ् स्त्र्येकार्थे उत्तरपदे । प्रतिषेधनिवृत्त्यर्थ आरम्भः । कल्याणमिया । भद्रकभार्या । माथुरनृन्दारिका । चन्द्रमुख वृन्दारिका । वातण्ड्यवृन्दारिका । परतः स्त्रीत्येव । खट्वादृन्दारिका । अनूङित्येव । ब्रह्मबन्धून्दारिका ॥ च्यौ कचित् ॥ ३ । २ | ६० ॥ परतः स्त्र्मनूङ् पुंवत् । महद्भूताकन्या । कचिदिति किम् । गोमती भूता ॥ सर्वादयोऽस्यादौ ॥ ३ । २ । ६१ ॥ परतः स्त्रियः पुंवत् । सर्वस्त्रियः । भवत्पुत्रः । अस्यादाविति किम् । सर्वस्यै । बहुवचनाद् भूतपूर्व सर्वादेरपि । द क्षिणोत्तरपूर्वणाम् ॥ मृगक्षीरादिषु वा ।। ३ । २ । ६२ ।। परतः स्त्री उत्तरपदे पुंवत् । मृगक्षीरम् । मृगीक्षीरम् ।
समासप्रकरणम्.
॥ ५२ ॥