________________
हेमप्रभा.
समासप्रकरणम्.
शब्दा उच्यन्ते । गुणक्रिययोस्तु तथालाभावान तनिमित्ता शब्दा द्रव्यशब्दा इति नीलोत्पलमित्येव भवति न तूत्पलनी. लमिति गुणादिशब्दानामेव समासे तु कामचारेण पूर्वापरनिपात इति, खञ्जकुण्टः कुण्टखञ्ज इत्यादि । कृष्णसारक इत्यादी तु सारङ्गादीनां समुदायवाचित्वाद प्राधान्यं, कृष्णादीनां त्ववयववाचित्वेनाभाधान्यमिति कृष्णादीनामेव पूर्वनिपातः । एकार्थमिति किम् । वृद्धोक्षा । बहुलाधिकारात् कचिम समासः, रामो जामादग्न्यः । कचिनित्यः । कृष्णसर्पः । जातिशब्दानामवयवद्वारेण समुदायेऽपि वृत्तेः सामानाधिकरण्यम् । भूयोऽवयववाचिनश्च प्राधान्यात् विशेष्यत्वमितरस्य तु विशेषणत्वम् । चकारस्तत्पुरुषकर्मधारयसंज्ञासमावेशार्थः॥ पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ॥ ३।१ । ९७ ॥ परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च । पूर्वकालोऽपरकालेन । स्नातानुलिप्तः । एकशाटी । सर्वोत्रम् । जरद्वलिनः । पुराणयाकरणः । नवोक्तिः । केवलज्ञानम् । एकार्थमित्येव । स्नात्वानुलिप्तः । पूर्वेणैव सिद्धे पृथग्षचनं पूर्वनिपातस्य विषयमदर्शनार्थ पूर्वापरकालवाचिनोरद्रव्यशब्दत्वादनियमे प्राप्ते पूर्वकालवाचिन एव पूर्वनिपातनियमार्थश्च ॥ दिगधिक संज्ञातद्धितोत्तरपदे ॥३।१।९८॥ नाना समासस्तत्पुरुषः कर्मधारयश्च । दक्षिणकौशलाः। पूर्वेषुकामशमी । दक्षिणशालः । अधिकपाष्टिकः । उत्तरगवधनः । अधिकगवमियः । तत्पुरुषलक्षणः समासान्तः। उत्तरपदेऽपि नित्यसमासः त्रयाणामेकार्थाभाव एवोत्तरपदसम्भवात् तत्र च द्वयोर्कापेक्षाभावात् । संज्ञादिग्रहणं किम् । उत्तरा - क्षाः । नियमार्थमिदम् । दक्षिणा गावोऽस्य सन्ति स दक्षिणगुरित्यत्र सन्तीत्येतदनपेक्षयान्तरत्वेन बहुव्रीहिभावात् उ- | तार्थत्वेन मत्वर्थीयतद्धितविषयाभाव एव नास्तीत्यनेन न समासः॥ सङ्ख्या समाहारे च दिगुश्वानाम्न्ययम् ।। ३।१। ९९॥ परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च संज्ञातद्धितयोर्विषये उत्तरपदे च परे । पञ्चाम्राः । सप्तर्षयः । द्वैमातुरः । अयर्घकसः । पञ्चगवधनः । पञ्चनावप्रियः । पञ्चराजी। समाहारे चेति किम् । अष्टौ प्रवचनमातरः । अस्य नियमार्थत्वाद विशेषणं विशेष्येणेत्यादिनापि न । एकस्याप्यनेकपर्यायोपनिपातिनोऽनेकत्वसम्भवे समाहारोपप
॥४९॥