________________
तेरेकापूपीत्यपि । द्विगुश्चेति चकारः तत्पुरुषकर्मधारयसंज्ञासमावेशार्थः । अनाम्नीति किम् । पाञ्चर्षम् । अयं ग्रहणमुत्तरत्र द्विगुश्चेत्यस्याननुवृत्त्यर्थम् ॥ निन्द्यं कुत्सनैरपापायैः ॥ ३ । १ । १०० ॥ समासस्तत्पुरुषः कर्मधारयश्च । वैयाकरणखसूचिः । मीमांसक दुर्दुरूढः । निन्यमिति किम् । वैयाकरणश्चौरः । कुत्सनैः किम् । कुत्सितो ब्राह्मणः । बहुलाधिकाराद्विशेषणसमासोऽपि न । भवतीत्यन्ये । अपापाद्यैरिति किम् । पापवैयाकरणः । हतविधिः । प्रवृत्तिनिमित्तमत्र कुत्स्यते । विशेष्यस्य पूर्वनिपातार्थं वचनम् । बहुवचनं प्रयोगानुसरणार्थम् ॥ उपमानं सामान्यैः ॥ ३ । १ । १०१ ॥ एकार्थं समासस्तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीश्यामा । मृगचपला । उपमानमिति किम् । देवदत्ता श्यामा उपमानोपमेयसाधारणधर्मवाचिभिरिति किम् । अग्निर्माणवकः । उपमानं सामान्यैरेवेति नियमार्थं वचनम् । तेनाग्निर्माणवक इसाद विशेषणसमासोऽपि न ॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ ३ । १ । १०२ ।। एकार्थमुपमानवाचिभिः समासस्तत्पुरुषः कर्मधारयश्च स्यात् । पुरुषव्याघ्रः । श्वसिंही । साम्यानुक्ताविति किम् । पुरुषव्याघ्रः शूर इति माभूद् । इदमेव प्रतिषेधवचनं ज्ञापकं प्रधानस्य सापेक्षत्वेऽपि समासस्तेन राजपुरुषो दर्शनीय इसादि सिद्धम् । बहुवचनमाकतिगणार्थम् । तेन वाग्वज्र इत्यादयोऽपि भवन्ति । पूर्वेण विशेषणसमासे प्रतिषिद्धे विध्यर्थमिदम् । पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ॥ ३ । १ । २०३ ॥ एकार्य नाम्ना समासस्तत्पुरुषः कर्मधारयश्च । पूर्वपुरुषः । अपरपुरुष इत्यादि । विशेषणं विशेष्येनेत्यादिनैव सिद्ध स्पर्धे परमिति पूर्वनिपातनस्य विषयप्रदर्शनार्थम् । अद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्तो पूर्वनिपातनियमार्थं वचनम् । तेन पूर्वजरन्, वीरपूर्वः, पूर्वपटुः एकवीर, इत्यादौ तु वीराः परस्य स्पर्धे पूर्वनिपातो न बहुलाधिकारात् ॥ श्रेण्यादिकृत्याद्यैश्च्व्यर्थे ।। ३ । १ । १०४ ॥ एकार्य गम्पे समासस्तत्पुरुषः कर्मधारयथ स्यात् । श्रेणिकृता । व्यर्थे इति किम् । श्रेणयः कृताः । च्व्यन्तानां च्व्यर्यस्य च्चिनैबोक्तलात् नानेन समासः । गत्यादिसूत्रेण तु नित्यसमासः । श्रेणीकृताः । बहुवचनमाकृतिगणार्थम् । यत्र सामर्थ्य
1