________________
हेमप्रभा
॥ ४७ ॥
चनार्धम् || ३ | १ | ६६ ॥ तुवीयान्तस्तस्कृतार्थेन समासस्तत्पुरुषः अर्धचतस्रो मात्राः । चतखेति किम् । अर्धन चत्वारो द्रोणाः । ऊनार्थपूर्वायैः ।। ३ । १ । ६७ ॥ तृतीयान्तं समासस्तत्पुरुषः । माषोनम् । मासविकलम् । मासपूर्वः । मासावरः । आकृतिगणत्वाद् धान्यार्य इत्यादीनां सिद्धिः । पूर्वादियोगे यथायथं हेत्यादौ तृतीया ॥ कारकं कृता ।। ३ । १ । ६८ ॥ तृतीयान्तं समासस्तत्पुरुषः । आत्मकृतम् । कृत्सगतिकारकस्यापि । नखनिर्भिन्नः । बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायः कृत्यैः सह समासः । काकपेया नदी । वाष्पच्छेद्यानि तृणानि । कारकं किम् । गोभिर्वपावान् । बहुलाधिकारादेव तत्रतुना त्वया तव्यानीयाभ्यां च न भवति । दात्रेण लूनवान् इत्यादि ॥ न विंशत्यादिनैकोच्चान्तः ।। ३ । १ । ६९ ॥ तृतीयान्तस्समासस्तत्पुरुषस्तत्सन्नियोगे एकस्य । एकान्न विंशतिः । एकाद् न विंश्चतिः । एवं एकान त्रिंशत्, एकाद् न त्रिंशत् । अत एव निर्देशात् नवत् इति न स्यात् ॥ चतुर्थी प्रकृत्या ॥ ३ । १ । ७० ॥ विकारवाचि समासस्तत्पुरुषः । यूपदारु । परिणामिकारणेनेति किम् । रेन्धनाय स्थाली ॥ हितादिभिः ॥ ३ । १ । ७१ ॥ चतुर्थ्यन्तं समासस्तत्पुरुषः । गोहितम् । गोमुखम् । हित, सुख, रक्षित, बलि, आकृतिगणात्, अश्वघासः । परस्मैपदम् । आत्मनेपदमित्यादि । कृत्यप्रत्ययान्तं चेह पठ्यते । देवदेयम् । इह न स्यात् । ब्राह्मणाय दातव्यम् । तदर्यार्थेन ॥ ३ । १ । ७२ ।। चतुर्थ्यन्तं समासस्तत्पुरुषः । पिश्रर्थ पयः । आतुरा यवागूः । - ऽर्थो वाच्यवदिति वाच्यलिङ्गता । नित्यसमासश्चायं चतुथ्यैव तदर्थस्योक्तत्वात् । समासस्तु वचनाद् भवति । चतुर्थ्यन्तार्थार्थेनेति किम् । पित्रेऽर्थः ॥ पञ्चमी भयायैः ॥ ३ । १ । ७३ ॥ समासस्तत्पुरुषः । वृकभयम् । वृकभीतः । आकृतिगणत्वात्, स्थानभ्रष्ट इत्यादीनां सिद्धिः । बहुलाधिकारादिह न । मासादात् पतितः ॥ क्तेनासत्त्वे ।। ३ । १ । ७४ || वर्त्तमाना या पश्चमी तदन्तं समासस्तत्पुरुषः । स्तोकान्मुक्तः । अल्पान्तुक्तः । असत्वे उसेरित्यलुप् । केनेति किम् । स्तोकान्मोक्षः । असत्त्वे इति किम् । स्तोकाद्वद्धः । समासे वदिताद्युत्पत्तिः फलम् ।। परः शतादिः ॥ २ । १ । ७५
समासप्रकरणम्.
॥ ४७ ॥