________________
मासत्वैत्रस्य । जातादेरेव हि मेवलम् जन्मादेः प्रभृति जावादिसम्बन्धिसेनैवादित्यगतः परिच्छेदात् न द्रव्यमात्र स्य । कान्तेनैव च मेयेन मायेायं समासः । तेन मासो गच्छत इत्यादौ न । अयमपि षष्ठीसमासापवादो योगः ॥ स्वयं स्वा मी क्रेन ।। ३ । १ । ५८ ।। समासस्तत्पुरुषः । स्वयं धौतम् । खामिकतम् । तेनेति किम् । स्वयं कृत्वा ॥ द्वितीया खट्वा क्षेपे ॥ ३ । १ । ५९ ।। क्रान्तेन सह समासस्तत्पुरुषः । खट्वा रूढो जाल्मः । नित्यसमासोऽयम् वाक्येन क्षेपानवगमात् । क्षेपे किम् । खट्वामारूढ उपाध्यायोऽध्यापयति । कालः ।। ३ । १ । ६० ।। द्वितीयान्तं कान्तेन समासस्तत्पुरुषः । रात्र्यारूढाः । अहरतिसृताः । अव्याप्त्यर्य आरम्भः ॥ व्याप्तौ ।। ३ । १ । ६१ ।। द्वितीयान्तं कालवाचि व्यापकेन समासस्तत्पुरुषः । मुहूर्त्तमुखम् । क्षणपाठः । दिनगुडः । व्याप्ताविति किम् । मासं वृको याति ॥ श्रितादिभिः ।। १ । १ । ६२ ॥ द्वितीयान्तं समासस्तत्पुरुषः । धर्मश्रितः । शिवगतः ॥ प्राप्तापन्नौ तयाच ॥ ३ । १ ।६३प्रथमान्तावेतौ द्वितीयान्तेन समासस्तत्पुरुषस्तयोगे चानयोरत् । प्राप्तजीविका । आपन्नजीविका । श्रितादित्वाज्जीविका । माता जीविकापना इत्यपि भवति ।। ईषद्गुणवचनैः ।। ३ । १ । ६४ ॥ समासस्तत्पुरुषः । ये गुणे वर्त्तित्वा तद्योगाणिनि वर्त्तन्ते गुणमुक्तवन्तो गुणवचनाः । ईषत्पिङ्गलः । ईषद्रक्तः । गुणवचनैरिति किम् । ईषद्गार्ग्यः । समासे तद्धिवादयः प्रयोजनम् । ऐषत्पिङ्गलम् ॥ तृतीया तत्कृतैः ॥ ३ । १ । ६५ ॥ गुणवचनैः समासस्तत्पुरुषः । शृङ्कलाखण्डः । मदपटुः । कृतार्थो वृत्तावन्तर्भूत इति कृतशब्दो वृत्तौ न प्रयुज्यते । तृतीयार्थकृतैरिति किम् । अक्ष्णा काणः । काणत्वादि त्र काण्डादिना कृतं नाक्ष्यादिना अक्ष्यादिना परं सम्बन्धमात्रम् । यदा तु तत्कृतत्वविवक्षायां कर्त्तरि करणे वा तृतीया तदा भवत्येव समासः, अभिकाण इत्यादि । गुणवचनैरित्येव । गोभिर्वपावान् । दध्ना पटुः । पाटनमित्यर्थः न त पूर्व गुणमुत्वा साम्प्रतं द्रव्ये बर्चेते इति गुणवचनौ न स्तः । अत एव शुद्धगुणवाचिनापि न समासः । घृतेन पाटवम् । अत्रापि समासो भवतीति कचित् । अन्ये तु गुणमात्रचिभिरपि समासमिच्छन्ति । शलाखण्डचैत्रस्य ॥