________________
हेमप्रभा .
॥ ४६ ॥
1
ह्रादयः ।। ३ । १ । ५३ ।। अंशितत्पुरुषाः साधवः । सायाह्नः । मध्यंदिनम् । बहुवचनमाकृतिगणार्थम् पूर्वे पञ्चालाः उत्तरे पञ्चाला इतिवत्समुदायवाचिनामंशेऽपि महचिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धं पूर्वकाय: सायाह इति तत्पुरुषविधानमिह पूर्वत्र च षष्ठीसमासबाधनार्थम् ॥ समेंऽशेऽ नवा ॥ ३ । १ । ५४ ॥ अंशिनाभिन्नेन समासस्तत्पुरुषः । अर्धपिप्पली । पिप्पल्यर्धम् । सर्वेऽश इति किम् । ग्रामार्धः । कर्मधारयेजैव सिद्धे भेदविवक्षायां पक्षे षष्ठीसमासबाधनार्थयसमांशे च कर्मधारयनिषेधार्थं च वचनम् । अंशिनेत्येव । पिप्पल्या अर्ध चैत्रस्य । अभिनेनेत्येव । अर्ध पिप्पलीमाम् । अर्धपिप्पल्य इत्यादयस्तु अंशिसमासे एकशेषात् । अत्र सशब्द आविष्टलिङ्गी नपुंसकः । असम पुल्लिङ्गः । अन्ये खसमांशे वाच्यलिङ्गमेनमाहुः । असमांशे एव च षष्ठीसमास समांश एवं च नित्यमंझिसमासमिच्छन्ति ॥ जरत्यादिभिः ।। ३ । १ । ५५ ।। अंशिभिरभित्रैरर्थो वा समासस्तत्पुरुषः । असमांशार्य आरम्भः । अर्धजरती । जरत्यर्थः । अर्धोक्तम् । उक्तार्थः । इदमपि षष्ठीसमासबाधनार्थम् ॥ वित्रिचतुष्पूरणाग्रादयः ।। ३ । १ । ५६ ।। अंशवाचिनोऽभिन्नेनांशिना वा समासस्तत्पुरुषः । वा ग्रहणात् पक्षेपष्ठीतत्पुरुषः पूरणेन निषिद्धोऽपि । द्वितीयं मिक्षाया, द्वितीयमिक्षा, मिक्षाद्वितीयम् । एवं तृतीयभिक्षा, तुर्यभिक्षा, तुरीयमिक्षा, चतुर्थभिक्षेत्यादि । अग्रहस्तः, हस्ताग्रम् । तलपादः, पादतलम् । व्यादिग्रहणं किम् । पश्चमं मिक्षायाः । पूरणेति किम् । द्वौ भिक्षायाः ॥ कालो हिगौ च मेयैः ॥ ३ । १ । ५७ ।। समस्यते स तत्पुरुषः । मासजातः । व्यहसुतः । कथं हजातः । समाहारद्विगौ काल इत्यंशेन भविष्यति । इह च यद्यपि विग्रहे जातादि कालस्य विशेषणं तथापि शब्दशतिखामान्यात् समासो जातादिमधानस्तेन समासे लिङ्गं सङ्ख्या च तदीयतदीयमेव भवति । मासजाता 1 कोल इति किम् । द्रोणो धान्यस्य । कालइत्येकवचनं द्विगोरन्यत्र प्रयोजकम् तेन मासौ मासा वा जातस्येत्यत्र न भवति । द्विराग्रहर्णे त्रिपदसमासार्थैम् । अन्यथा नाम नाम्नेत्यनुवृतेर्द्वयोरेव स्यात् । चो द्विगुरहितकालपरिग्रहार्थः । मेयैरिति
।
समासप्रकरणम्.
॥ ४६ ॥