________________
नानीति किम् । गोऽक्षाणि । स्वरे वाऽनक्षे ॥ १ । २ । २९ ॥ गोरोतः पदान्तस्यस्यावः स्यात् । गवाग्रम् । गोडग्रम् | अनक्षे किम् । गोऽक्षम् । ओतः किम् । चित्रम्बर्थः ॥ इन्द्रे ॥ १ । २ । ३० ॥ इन्द्रस्ये स्वरे परे . गोरोतः पदान्तस्थस्यानः स्यात् । गवेन्द्रः । गवेन्द्रयज्ञः ।। वात्यसन्धिः ॥ १ । २ । ३१ ॥ गोरोतः पदान्तस्थस्य स्यात् । गोअग्रम् । गोऽग्रम । गवाग्रम् ॥
॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहस्पिट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरना महद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंवित्रशास्त्रीयतपोगच्छाचार्य श्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्वरसन्धिः ॥
॥ अथाऽसन्धिप्रकरणम् ॥
न सन्धिः ॥ १ । ३ । ५२ ॥ उक्तो वक्ष्यमाणश्च सन्धिर्विरामे न स्यात् । दधि अत्र । तत् लुनाति ॥ प्लुतोऽनितौ ।। १ । २ । ३२ ।। खरेऽसन्धिः । देवदत्त ३ अत्र न्वसि । अनिताविति किम् । सुश्लोक ३ इति सुश्लोकेति । सम्मत्यस्याकोपकुत्सनेष्वाद्याऽऽमन्त्रयमादौ स्वरेष्वन्त्यश्च प्लुतः ॥ ७ । ४ १ ८९ ॥ एतदृत्तेर्वाक्यस्यादिभूतमामन्त्र्यं द्विः स्यात् द्वित्वे चादौ स्वराणां मध्येऽन्त्यः स्वरः प्लुतो वा स्यात् । सम्मतौ, माणवक ३ माणबक २ शोभनः खल्बसि । असूयायाम्, अभिरूपक ३ अभिरूपक २ रिक्तन्ते आभिरूप्यम् । कोपे, अविनीतक ३ अ विनीतक २ इदानीं ज्ञास्यसि जाल्म । कुत्सने, शक्तिके ३ शक्तिके २ रिक्ता ते शक्तिः ॥ भर्त्सने पर्यायेण ॥ ७ । ४ । ९० ।। कोपेन निन्दाविष्करणं भर्त्सनं, तद्द्द्त्तेर्वाक्यस्य यदामन्त्र्यं तद्विः स्यात् द्वित्वे च क्रमेण पूर्वोत्तरपदयोः स्वरे