________________
हेमप्रभा॥ ५ ॥
वन्त्यः प्लुतो वा स्यात् ।। चौर ३ चौर चौर चौर ३ चौर चौर घातयिष्यामि त्वाम् ॥ त्यादेः साकाङ्क्षस्याङ्गेन ॥ ७ । ४ । ९१ ॥ भर्त्सनार्थे वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य वाक्यान्तराकाङ्क्षस्य अङ्ग इति निपातेन युक्तस्य प्लुतो वा स्यात् । अङ्ग कूज ३ (२) इदानीं ज्ञास्यसि जाल्म । त्यादेः किम् । अङ्ग देवदत्त मिथ्या वदसि । साकाङ्क्षस्य किम् । अङ्ग पच ॥ क्षियाशीः प्रेषे ॥ ७ । ४ । ९२ ।। क्षिया आचार भ्रेषः । एतदृट्टत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य प्लुतो वा भवति । क्षियायां, स्वयं ह रथेन याति ३ उपाध्यायं पदातिं गमयति । आशिषि, सिद्धान्तमध्येषीष्ठा ३ व्याकरणं च तात । असत्कारपूर्वक व्यापारणायाम् त्वं ह पूर्व ग्रामं गच्छ ३ चैत्रो दक्षिणम् २ ॥ चितीवार्थे ।। ७ । ४ । ९३ ॥ सादृश्यार्थे चिति प्रयुक्ते वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अनिश्चित् भाया ३ त् अग्निरिवेत्यर्थः ॥ प्रतिश्रवणनिगृह्यानुयोगे ।। ७ । ४ । ९४ ॥ एतदृत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । परोक्ताभ्युपगमे, गां मे देहि भो हन्त ते ददामि ३ (२) स्वयं प्रतिज्ञाने नित्यः शब्दो भवितुमर्हति ३ (२) श्रवणाभिमुख्ये, भो देवदत्त किं मार्च ३ (२) उपालम्भे, अद्य श्राद्धमित्यात्थ ३ (२) । विचारे पूर्वस्य ।। ७ । ४ । ९५ ।। विचारः संशयः । तद्विषये संशय्यमानस्य यत्पूर्व तस्य स्वरेष्वन्त्यः स्वरः लुतो वा स्यात् अहिर्नु ३ रज्जु २ ॥ ओमः प्रारम्भे ॥ ७ । ४ । ९६ ।। खरः प्लुतो वा स्यात् । ओ३म् २ ऋषभं प्रण मत । प्रारम्भे किम् । ओम् ददामि ॥ हे प्रश्नाख्याने ॥ ७ । ४ । ९७ ॥ खरः प्लुतो वा । अकार्षीः कटं मैत्र, अकाहि ३ (२) उत्तरेण सिद्धे नियमार्थमिदम् || प्रश्ने च प्रतिपदम् ॥ ७ । ४ । ९८ || प्रश्नप्रभाख्यानार्थस्य वाक्यस्य यत्पदं तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । मने, अगमः ३ पूर्वा ३ न् ग्रामा ३ न् देवदत्त ३ । (२) प्रश्नाख्याने, अगम ३म् पूर्वा ३ न् ग्रामा ३ न् जिनदत्त ३ (२) दूरादामन्यस्य गुरुर्वकोऽनन्त्योऽपि लन्त् ॥ ७ ॥ ४ । ९९ ।। वाक्यस्य यः स्वरेष्वन्त्यः स्वरो दूरादामन्त्र्यार्थपदस्थो गुरुरनन्त्योऽपि ऋद्वर्जस्वरथ ऌकारचैकः प्लुतो वा
असन्धिप्रकरणम्.
॥५॥