SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा. ॥४४॥ समासप्रकरणम्. HOSALMAN SANSARASHTRA सहपूर्वाहणम् ॥ योग्यतावीप्सानातिवृत्तिसादृश्ये ।।३।१।४०॥ अव्ययं नाम्ना सह पूर्वपदार्थे समस्यते सोऽव्ययीभावः । अनुरूपं चेष्टते । प्रत्यर्थम् । वीप्सायां द्वितीयाविधानाद्वाक्यमपि । अर्थमर्थ पति । यथाशक्ति । सशीलमनयोः । सहगित्येव सिद्धे सादृश्यग्रहणं मुख्यसादृश्यपरिग्रहार्थम् ।। यथाथा ॥३।१।४१ ॥ नाम नाम्ना पू. र्वपदार्थे समस्यते सोऽव्ययीभावः । यथारूपं चेष्टते । यथाद्धमर्चय । यथासूत्रमधीष्व । अथा इति किम् । यथा चैत्रस्तथा मैत्रः। पूर्वेणैव सिद्धे सादृश्ये प्रतिषेधार्थ वचनम् ॥ प्रतिपरोऽनोरव्ययीभावात् ॥७ । ३ । ८७॥ अक्ष्णः समासान्तोऽत् स्यात् । प्रत्यक्षम् । परशब्दसमानार्थः । परस् शब्दोऽव्ययम् । परोक्षम् । अन्वक्षम् । कथं प्रत्यक्षोऽर्थः । परोक्षः काल इति अभ्रादेराकृतिगणत्वेनामत्यये भविष्यति । प्रत्यादिभ्यः परस्याक्षिशब्दस्य प्रयोगो माभूदिति वचनम् ॥ अनः ॥७।३।८८ ॥ अव्ययीभावादत् ।। नोऽपदस्य तडिते ॥७।४।६१॥ अन्त्यस्वरादेर्लुक् । उपतक्षम् ॥ नपुंसकमा ।।७।३ । ८९॥ अनोऽव्ययीभावादत् । उपचर्मम् । उपचर्म । पूर्वेण नित्यं प्राप्ते विकल्पः॥ गिरिनदीपौर्णमास्याग्रहायण्यपश्चमवावा ॥७।३ । ९० ॥ अव्ययीभावाद । अन्तर्गिरम् । अन्तर्गिरि । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि । उपसुचम् । उपमुक् ॥ सङ्ख्याया नदीगोदावरीभ्याम् ॥ ७।३ । ९१ ॥ सङ्ख्यादेनंदीगोदावर्यन्तादग्ययीभावादत् । पश्चनदम् । द्विगोदावरम् । सङ्ख्याया इति किम् । उपनदि । अव्ययीभावादित्येव । एकनदी । इह नदीग्रहणं नित्यार्थम् ॥ शरदादेः ॥७। ३ । ९२ ॥ अव्ययीभावादत् । उपशरदम् । प्रतित्यदम् । अपञ्चमवर्यान्तपाठो नित्यार्थः । अव्ययीभावादित्येव । परमशरत ॥जराया जरसु च ॥७।३ । ९३ ॥ अव्ययीभावादत् । उपजरसम् ॥ सरजसोपशुनानुगवम् ॥७।३ । ९८॥ एतेऽव्ययीभावा अदन्ता निपात्याः। सरजसं भुङ्क्ते, उपशुनमास्ते, अनुगवमनः । दैयचरित्यव्ययीभावः। दैयादन्यत्र न, अनुगु यानम् । ॥ इत्यव्ययीभावः॥ USHROUGUS ॥४४
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy