________________
अनुः समीपिवाचिना पूर्वपदार्थे समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गता । विभक्तीत्यादिना सिद्धे विकल्पार्थं वचनं लक्षणनेत्यस्य निस्वर्वम् ॥ तिष्ठदृग्वित्यादयः ।। ३ । १ । ३६ ।। अव्ययीभावा निपात्यन्ते । यथायोगमन्यस्य पूर्वस्य वार्ये ॥ तिष्ठहुकालः । अंबो नाभम् । आयतीगवम् । तिष्ठद्ग्बादिराकृतिगणः । इतिशब्दः स्वरूपपरिग्रहार्थः । तेनेह समासान्तरं न । परमं तिष्ठद्ध इत्यादि वाक्यमेव भवति । अत एव प्रदक्षिणसम्मतिभ्यां सह नञ्समासेन सिद्धावप्रदक्षिणासम्पत्योः पाठः । इजन्तस्य च तिष्ठदुम्बादिपाठः इज् युद्धे इत्यनेनेजन्तस्य समासान्तरमतिषेधार्थः द्विदख्यादेरव्ययीभावार्थश्च । अन्ये तु परपदेनैव समासं प्रतिषेधयन्ति । तन्मते परमतिष्ठद्ध इत्यादयः साधवः ॥ नित्यं प्रतिनाऽल्पे ॥ ३ | १ | ३७ ॥ नामाव्ययीभावः समासः । शाकप्रति । अल्प इति किम् । वृक्षं प्रति विद्युत् । नित्यग्रहणादन्यत्र समासो वाक्यं च भवति ।। सङ्ख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ ॥ ३ । १ । ३८ ॥ नित्यं समस्यते सोऽव्ययीभावः । एकपरि, अक्षपरि, शलाकापरि, एकेनाक्षेण शलाकया न तथा हृतं यथा पूर्व जये इत्यर्थः । अक्षशलाकयोरेकवचनान्तयोरेवैष्यते । सङ्ख्यादीति किम् । पाशकेन न तथा वृत्तम् । परिणेति किम् । अक्षेण परिहृत्तम् । द्यूत इति किम् । रथस्याक्षेण न तथा हृतम् ॥ विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिपश्चात् क्रमख्यातियुगपत्सदृक्सम्पत्साकल्यान्तेऽव्ययम् ॥ ३ । १ । ३९ ।। नाम नाम्ना पूर्वपदार्थे वाच्ये समस्यते सोऽव्ययीभावः । विभक्तिर्विभक्त्यर्थः कारकं, तत्र अधित्रि । समीपे उपकुम्भम् । समृद्धिः, सुमद्रम् । विगता ऋद्धिद्धि, दुर्यवनम् । अर्थाभावे, निर्मक्षिकम् । अव्ययोऽतीतत्वम्, अतिवर्षम् । असम्मतीति सम्मति उपभोगाद्यभावः भतिकम्बलम् । पश्चात्, अनुरथम् । क्रमे, अनुज्येष्ठम्, ख्यातिः, इतिभद्रबाहुः । युगपत् संचकं घेहि । सहक, सव्रतम् । सम्पत् सब्रह्म साधूनाम् । साकल्ये, सतृणमभ्यवहरति, अन्ते, सपिण्डेषणमधीते । पूर्वपदार्थे किम् । सुमहाः । अव्ययमिति किम् | समीपं कुम्भस्य || अकालेऽव्ययीभावे ॥ ३ । २ । १४६ ।। सहस्य स उचरपदे । इति सः । अकाले किम्