SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा. ॥ ४३ ॥ - पददन्तस्यान्ययीभावस्यादन्तस्य सप्तम्या अम् । सुमगधम् । उन्मत्तगङ्गं । एकविंशतिभारद्वाजं वसति । प्रतिपदोक्तस्यैव ग्रहणादिह न । उपगने । नित्यार्थे वचनम् || अनतो लुप् ।। ३ । २ । ६ । अव्ययीभावस्य स्यादेः । उपवधु । अमत इति किम् । उपकुम्भात् । तत्सम्बन्धिविज्ञानादिह न । प्रियोपवधुः ॥ संख्या समाहारे ॥ ३ । १ । २८ ॥ नदीभिः सहाव्ययीभावः समासः । द्वियनम् । पञ्चनदम् । समाहारे किम् । एकनदी । द्विग्वपवादः । अन्ये तु पूर्वपदप्राधान्येऽ व्ययीभावः समाहारे तु द्विगुरेवेत्याहुः ॥ वंश्येन पूर्वार्थे ॥ ३ । १ । २९ ॥ सङ्ख्या समस्यते सोऽव्ययीभावः । बिधया जन्मना वा एकसन्तानो वंशः । एकमुनि व्याकरणस्य । सप्तकाशि राज्यस्य । विद्यया तद्वतामभेदविवक्षायामेकमुनि व्याकरणम् । पूर्वार्थ इति किम् । द्विमुनिकं व्याकरणम् । अन्ये तु पूर्वार्थे इति विशेषं नेच्छन्ति तन्मते कर्मधारयद्विगुबहुव्रीहिमसङ्गेऽव्ययीभावः ॥ पारेमध्येऽप्रेन्तः षष्ठ्या वा ॥ ३ । १ । ३० ॥ समासो ऽव्ययीभावः । आद्यानां त्रयाणामेदन्तत्वं निपात्यते । पारेगङ्गम् । मध्येगङ्गम् । अग्रेवणम् । अन्तर्गिरम् । अन्तर्गिरि । पक्षे, गङ्गापारम् । गङ्गामध्यम् । बनाग्रम् । गिर्यन्तः ॥ यावदियध्वे ॥ ३ । १ । ३१ ॥ यावदित्यनव्ययं चेह गृह्यते । अव्ययमेवेत्यन्ये । नाम नाम्ना पूर्वपदार्थे समस्यते सोऽव्ययीभावः । यावदमत्रं भोजय । इयत्त्व इति किम् । यावद्दचं तावद्भुक्तम् ॥ • पर्यपादबहिरच्पञ्चम्या || ३ । १ । ३२ ।। पूर्वपदार्थे वाच्ये समासो ऽव्ययीभावः । परित्रिगर्त्तम् । अपत्रिगर्त्तम् । आग्रामम् । बहिर्ग्रामम् । प्राग्ग्रामम् । पर्यादिसाहचर्यादश्च तिर्थेन लुबन्तो ऽव्ययं गृह्यते । तेनेह न । प्राग्ग्रामाचैत्रः I प्रतिपदविहितपञ्चम्या ग्रहणादिहाव्ययीभावो न । अपशाखः । पञ्चम्येति किम् । परि दृक्षं विद्युत् ॥ लक्षणेनाभित्ययाभिमुख्ये || ३ | १ | ३३ ॥ पूर्वपदार्थे समस्यते सोऽव्ययीभावः । अभ्यग्नि प्रत्यग्नि शलभाः पचन्ति । लक्षणेनेति किम् । स्रुग्नं प्रति गतः । पूर्वपदार्थ इत्येव । अभ्यङ्का गावः ॥ दैर्घ्येऽनुः ॥ ३ । १ । ३४ ।। लक्षणवाचिना पूर्वपदार्थे समासो ऽव्ययीभावः । अनुग वाराणसी । दैर्ध्वे इति किम् । वृक्षमनुविद्युत् ॥ समीपे ॥ ३ । १ । ३५ ॥ समासप्रकरणम्. ॥ ४३ ॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy