________________
BACKGROGRAMMARC
प्रापि ॥ गड्वादिभ्यः॥३।१। १५६ ।। बहुव्रीही सप्तम्यन्तं वा पाक् स्यात् । मडकण्ठः । कण्ठेगडः । मध्येगुरुः । गुरुमध्यः । व्यवस्थितविभाषया बहेगडरिखेव ॥ प्रियः ॥३।१।१५७ ॥ बहुव्रीही माग्वा स्यात् । प्रियगहुः । गडपियः॥
॥इति बहुव्रीहिः।। तत्रादाय मिथस्तेन प्रहत्येति सरूपेण युद्धेऽव्ययीभावः॥३।१।२६ ॥ नाम नाम्ना अन्यपदार्थे समासः स्यात् ॥ इज् युद्धे ।७।३।७४॥ यः समासस्तस्मात् समासान्तः स्यात् ॥ इच्यस्वरे दीर्घ आच्च ॥ ३।२।७२॥ उत्तरपदे पूर्वपदस्य । केशाकेशि । दण्डादण्डि । मुष्टीमुष्टि । मुष्टामुष्टी । तति तेनेति किम् । केशांश्च २ गृहीत्वा कृतं युद्धं । मुखं च प्रहृत्य कृतं युद्धं । आदायेति प्रहत्येति किम् । केशेषु २ च स्थित्वा, दण्डैश्च २ आगत्य कृतं युद्ध गृहकोकिलाभ्याम् । सरूपेणेति किम् । हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् । हस्ते च २ गृहीत्वा कृतं सख्यम् । युद्धविषयनिर्देशाधुद्धोपाधिकायामन्यस्यामपि क्रियायां भवति । बाहूबाइवि व्यासजेतामिति ॥ द्विदण्ड्यादि ॥७।३ । ७५ ॥ इजन्तः साधुः। द्विदण्डि हन्ति । उभादन्ति । क्रियाविशेषणान्येतानि ॥ नदीभिर्नाम्नि ॥३।१।२७ ॥ अन्यपदार्थे नाम समस्यते सोऽव्ययीभावः । बहुवचनात् विशेपाणां स्वरूपस्य च ग्रहणम् । नाम्नि किम् । शीघ्रगङ्गो देशः । अन्यपदार्थ इत्येव । कृष्णवेण्णा ॥ अमव्ययीभावस्यातोऽपञ्चम्याः ॥३।२।२॥ स्यादेः । उन्मत्तगडं देशः । अत इति किम् । अधिस्त्रि । अपञ्चम्या इति किम् । उपकुम्भात् ॥ वा तृतीयायाः॥३।२।३॥ अतोऽव्ययीभावस्याम् । किं न उपकुम्भेन, उपकुम्भम् । तत्सम्बन्धिन्यास्तृतीयाया इति किम् । किं नः मियोपकुम्भेन. ॥ सप्तम्या वा ॥ ३ ॥२॥४॥ अतोऽव्ययीभावस्याम् । उपकुम्भम् उपकुम्भे वा निधेहि । सम्बन्धिग्रहः किम् । मियोपकुम्भे । योगविभाग उत्तरार्थः ॥कहनदीवंशस्य ॥३।२।५॥
OCALCUDAICORRESTEDABANGALORK