________________
॥४०॥
हेमप्रभा. जातेरीया सामान्यवति ॥७।३।१३९॥ बहुव्री ब्राह्मणजातीयः। सामान्याश्रयेऽन्यपदार्थे इति किम् ।
समासबहुजातिमः । अजातीय इत्यत्र सामान्यवानन्यपदार्थः । मतिषेधस्तु नवर्यः । सामान्यग्रहणं किम् । दुर्जातेः' सूतपुत्र-13 प्रकरणम्. ट्राय । अत्र जातिशब्दो जन्मपर्यायः। पितृस्थानीयः । पृहस्थानीय इति तु अधिकरणमधानेन स्थानीयशब्देन भविष्यति
। भृतिप्रत्ययान्मासादिकः॥७।३।१४० ॥ बहुव्रीहेः । पञ्चकमासिकः । भृतिप्रत्ययादिति किम् । मुमासः । भृतिग्रहणं किम् । वार्षिकमासकः । प्रत्ययग्रहणं किम् । भृतिमासकः । मासात् किम् । पञ्चकदिवसकः॥ विपदादू धमा- | दन् ।।७।३।१४१॥ बहुव्रीहेः । साधुधर्मा । विकल्पमिच्छन्त्येके । तद्धर्मा । तद्धर्मकः । द्विपदादिति किम् । परमस्वधर्मः । परमः खधर्मो यस्य स परमखधर्म इत्यत्र तु प्रत्यासत्तेर्द्विपदस्य बहुव्रीहेर्यदि धर्म एवोत्तरपदं तदान् स्यादिति नियमान ॥सुहरितवृष्णसोमाज्जम्भात् ॥७।३।१४२ ॥ बहुव्रीहेरन् । मुजम्मा, हरितजम्भा, तृणजम्भा, सोमजम्भा, ना । जम्भो भक्ष्ये दन्ते च । स्वादिभ्यः किम् । चारुजम्भः । पतितजम्भः ॥ दक्षिणेर्मा व्याधयोगे ॥७ ।३।१४३ ॥ बहुव्रीहर्निपात्यः । ईमै बहु व्रणं वा । दक्षिणेर्मा मृगः । व्याधयोग इति किम् । दक्षिणेमः पशुः॥ सुपू-1* युत्सुरभेर्गन्धादिद्गणे ॥७।३।१४४ ।। बहुव्रीहे। सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि, द्रव्यम् । उत्तरत्रागन्तोर्वा वचनादिह स्वाभाविकाद्भवति । स्वादिभ्यः किम् । तीव्रगन्धं हिमु । गन्धादिति किम् । सुरसः । गुण इति किम् । द्रव्ये सुगन्ध आपणिकः ॥ वागन्तौ ॥७।३।१४६ ॥ स्वादिभ्यः परो यो गन्धस्तदन्तादहुव्रीहेरिन् । सुग|न्धिः । मुगन्धो वा कायः। एवं पूतिगन्धिः पूतिगन्धः इत्यादि ॥वाल्पे ॥७।३।१४३॥ यो गन्धस्तदन्ताद् | बहुब्रीहेस्ति । सूपगन्धि सूपगन्धं वा भोजनम् । असामानाधिकरण्येऽपि उष्ट्रमुखादिखाद् बहुव्रीहिः ॥ वोपमानात् ॥ ७।३।१४७॥ परो यो गन्धस्तदन्ताबहुव्रीहेरिन् । उत्पलगन्धि उत्पलगन्धं वा मुखम् ॥ पात्पादस्याहस्त्यादेः ॥ ७।३।१४८॥ उपमानात् परस्य बहुव्रीहौ । कचोऽपवादः । व्याघ्रपात् । अहस्त्यादेरिति किम् । इस्तिपादः। अश्वपादः ॥४०॥
NEWSSSSS
5555453091985