________________
हेमप्रभा.
॥ ३९ ॥
यदपेक्षयान्त न तदपेक्षया गौणत्वमिति न स्यात् । अतिराजकुमारिरित्यादौ तु गोणी ख्यादिः इति मुख्ये श्रीमत्यये प्रत्ययः प्रकृत्यादेरिति न्यायो नोपतिष्ठते । राजकुमारीशब्दस्य तु मुख्यत्वमेव, तेन स्यादिप्रत्ययान्तमात्रमिह विधानानपेक्षमेव गृह्यते । बहुकुमारीक इत्यत्र तु प्रथममेव कचि कृते अन्त्यत्वाभावान्नं । अनंशीत्यादि किम् । अर्धपिप्पली । बहुश्रेयसी ना ॥ नाप्रियादी ।। ३ । २ । ५३ ।। अप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे मियादौ च परे परतः स्त्री पुंवन ॥ कल्याणीपञ्चमारात्रयः । पुरण्यवन्तस्य ग्रहणाद् वचश्चरणः । कल्याणीमियः । अमियादाविति किम् । कल्याणपश्रमीकः । प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, स्वा, क्षान्ता, कान्ता, वामना, समा, सचिवा, चपला, बाला, तनया, दुहितृ, भक्ति, इति प्रियादिः । वामेत्यप्यन्ये ॥ तद्धिताककोपान्त्य पूरण्याख्याः ॥ ३ । २ । ५४ ॥ परतः स्त्रियः पुंवन । मद्रिकाभार्यः । कारिकाभार्यः । पञ्चमीभार्यः । दत्ताभार्यः । तद्धिताककेति किम् । पाकभार्यः ॥ ततः स्वरवृद्धिहेतुररक्तविकारे ।। ३ । २ । ६५ ॥ परतः स्त्री पुंवन । माथुरीभार्यः । तद्धित इति किम् । कुम्भकारभार्यः । स्वर इति किम् । वैयाकरणभार्यः । वृद्धिहेतुरिति किं । अर्धप्रस्थभार्यः । अन्ये तु दृद्धिमात्र तोतिस्तद्धितस्य प्र तिषेधमिच्छन्ति । तन्मते वैयाकरणी भार्यः । अरक्तविकार इति किम् । कापाय बृहतिकः । लौहेषः ॥ स्वाङ्गान्डीजतिञ्चामानिनि ।। ३ । २ । ५६ ।। परतः स्त्री पुंवन्न । दीर्घकेशीभार्यः । कठीभार्यः । शुद्राभार्यः । आकृतिग्रहणा जातिरत्रिलिङ्गा च यान्विता । आजन्मनाशमर्थानां सामान्यमपरे विदुः || १ || अत्र प्रथमजातिलक्षणानुसारेण, कुमारीभार्यः किशोरीभार्य इति स्यात् । नहि कुमारत्वाद्युत्पत्तेः प्रभृत्याविनाशमनुवर्त्तते । स्वाङ्गात् किम् । पटुभार्यः । अमानिनीति किम् । दीर्घकेशमानिनी ॥ बहुब्रीहेः काष्ठे टः ॥ ७ । ३ | १२६ ॥ अङ्गुल्यन्तात् समासान्तः । द्व्यङ्गुलं काष्ठम् । क किम् । पञ्चाङ्गुलिर्हस्तः अङ्गुलेरिति निर्देशादङ्गुलीशब्दान्तात् न । व्यङ्गुलीकम् । टो उयर्यः । दीर्घागुली ॥ सक्थ्यक्ष्णः स्वाङ्गे ॥ ७ । ३ । १२६ ॥ एतदन्ताद्वहुव्रीहेष्टः । दीर्घसक्यः । स्वक्षी । स्वाङ्गं इति किम् । दीर्घसक्थ्यनः
1
समासप्रकरणम्.
॥ ३९ ॥