________________
३।१।२०॥ सरूया नाम्नकार्ये समासः सख्येये वाच्ये स च बहुव्रीहिः । आसनदशाः। अदुरदशाः। अधिकदशाः । अध्यर्धविंशाः । अर्थपञ्चविंशाः ॥ प्रमाणीसङ्ख्याहुः ॥७।३ । १२८ ॥ बहुव्रीहे. समासान्तः । स्वीपमाणाः। द्वित्राः ॥ विंशतेस्तेर्डिति लुक् ॥७।४।६७॥ अध्यधविशाः॥ बहुगणं भेदे ॥११॥४०॥ सङ्ख्यावत् ॥ अव्ययम् ॥३।१।२१॥ सङ्ख्यया ऐकायें समस्यते द्वितीयायन्यार्थे सङ्ख्येये वाच्ये स च बहुव्रीहिः । उपदशाः । उपबहवः । उपगणाः। योगविभाग उत्तरार्थः॥ एकार्थ चानेकं च ॥३।१।२२ ॥ एकमव्ययं च नाम्ना द्वितीयाद्यन्तान्यपदार्थे समस्यते स च बहुव्रीहिः । आरूढवानरो वृक्षः । सुसूक्ष्मजटकेशः । उच्चैर्मुखः। व्यधिकरणत्वादव्ययस्य न स्यादित्यव्ययानुकर्षणार्थश्चकारः । एकार्थ किम् । पञ्चभिर्भुक्तमस्य । द्वितीयायन्यार्थ इत्येव । वृष्टे मेघे गतः। दृष्टे मेघे गतं पश्येत्यत्र तु बहिरङ्गा द्वितीयान्तता । शब्दे कार्यासम्भवादर्थे लब्धे यदर्थग्रहणं तदन्यपदार्थस्य या लिङ्गसङ्ख्याविभक्तयस्ता यथा स्युरित्येवमर्थम् । राजन्वती भूरनेनेत्यादौ तु बहुलग्रहणान स्यात् ।। परतः स्त्री पुंवत् त्येकार्थेऽनूङ्॥३।२ । ४९ ॥ उत्तरपदे । दर्शनीयभार्यः । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पदी च मृद्वी च पट्वीमयी ते भार्ये यस्य स पट्वीमृदुभार्यः। अत्र द्वन्द्वपदानां परस्परार्थसक्रमात् द्यर्थेन भायाँशब्देन सामानाधिकरण्यमिति पुंवद्भावः । पूर्वस्य तु व्यवधानान । विशेष्यवशादिति किम् । द्रुणीभार्यः । स्त्रीति किम् । खलपुदृष्टिः । स्त्र्येकार्थ इति किम् । कल्याणीवस्त्रम् । कल्याणीनेत्राः । कल्याणीमाता । अन्डिति किम् । करभोरुभार्यः | । प्रसज्यप्रतिषेधादैडविडमार्यः ॥ गोश्चान्ते हस्वोऽनशिसमासेयो बहुव्रीहौ ॥२।४।९६ ॥ गौणस्याकिपो| अन्यायन्तस्य च.। चित्रगुः । चित्राजरद्दुः । कर्मधारयपूर्वपदे तु चित्रजरगवीकः । निष्कौशाम्बिः। अतिखटूवः । अतिब्रमबन्धुः । गौणस्येत्येव । गौः । अकिप इसेव । भियकुमारी चैत्रः । गोथेति किम् । अतितन्त्रीः । अन्ते इति किम् । गोकुलम् । कुमारीमियः । कन्यापुरम् । अत्र गोशब्दो न्यावन्तं च समासाथै न्यग्भूतखाद्गौणम् । मुगोपिय इत्पादौ तु