________________
हेमप्रभा.
11 32 11
॥ अथ समासप्रकरणम् ॥
॥ समर्थः पदविधिः ॥ ७ । ४ । ११२ ।। सर्वः । सामर्थ्यं व्यपेक्षा एकार्थीभावथ परस्परं साकाङ्क्षत्वं व्यपेक्षा, भिवप्रवृत्तिनिमित्तानां शब्दानामेकार्थोपस्थापकत्वमेकार्थीभावः । व्यपेक्षायां सम्बद्धार्थः सम्प्रेक्षितार्थो वा पदविधिः साधुः । एकार्थीभावे तु विग्रहवाक्यार्थाभिधाने यः शक्तः सङ्गतार्थः संसष्टार्थो वा पदविधिः स साधुः । अत्र पन्युपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्योपादानात् व्यर्थानि अर्थान्तराभिधायीनि वा । पदविधिश्व समासनामधातुकृतद्धितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपः । धर्मश्रितः । पुत्रीयति । कुम्भकारः । औपगवः । नमो देवेभ्यः । धर्मस्ते मे स्वम् । अङ्गकृत ३ इदानीं ज्ञास्यसि जाल्म । सविशेषणानां चिर्न वृत्तस्य च विशेषणयोगो न । कचित्तु विशेषणयोगे ऽपि गमकत्वात् समासः । देवदत्तस्य गुरुकुलम् । समर्थ इति किम् । पश्य धर्म श्रितो मैत्रो गुरुकुलमित्यादि । पदोक्तेर्वर्णविधिरसामर्थ्येऽपि स्यात् । तिष्ठतु दध्याशान त्वं शाकेन । एवं समास-नामधातु - कृत्-तद्धितेषु, वाक्ये व्यपेक्षा, छत्तावेकार्थीभावः शेषेषु पुनर्व्यपेक्षयैव सामर्थ्यम् ॥ नाम नान्नैकार्थ्यं समासो बहुलम् || ३ । १ । १८ ॥ लक्षणमिदमधिकारश्च । तेन विशेषसंज्ञाभावेऽप्यनेन समासः । विस्पष्टं पटुः । विस्पष्ट पटुः । दारुणाध्यापकः । सचर्मीणो रथः । कन्ये इव । श्रुतपूर्वः । नामेति किम् । चरन्ति गावो धनमस्य । नान्नेति किम् । चैत्रः पचति । बहुलग्रहणात् कचिदनामानाम्ना च । भात्यर्कं नभः । अनुभ्यचलत् ॥ ऐकायें ॥ ३ । २ । ८ ॥ स्यादेर्लुप् । चित्रगुः ॥ सुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः ॥ ३ । १ । १९ ॥ ऐकार्थ्यं समासः । सुजर्थो वारो वार्थः संशयो विकल्पो वा । द्वित्राः । द्विदशाः । सङ्ख्येति किम् । गावो वा दश वा । सख्ययेति किम् । दश वा गावो वा । सङ्ख्येयेति किम् । द्विविंशतिर्गनाम् । सुज्वार्थ इति किम् । द्वावेव न श्रवः । आसन्नादूराधिकावर्षार्धादिपूरणं द्वितीयाद्यन्यार्थे ॥
समासप्रकरणम्.
॥ ३८ ॥