________________
इत्यादावपि सव्येतरत्वावान्तरजातिद्वयोपाधियोगात् एकत्वं नास्तीति बहुषद्भावो न । जातिमात्रविवक्षायां तु स्यादेव । । असङ्ख्य इति किम् । एको व्रीहिः सम्पन्नः मुभिक्षं करोति । अत्र विशेषणभूतसङ्ख्याप्रयोगोऽस्तीति एके बीहयः सम्पमाः सुभिक्षं कुर्वन्तीति न स्यात् ॥ अविशेषणे द्वौ चास्मदः॥२।२ । १२२ ॥ एकोऽर्थो वा बहुवत् । आवां ब्रूवः । वयं ब्रूमः । अहं ब्रवीमि । वयं ब्रूमः । अविशेषणे किम् । आवां गाग्यौं वः । अहं चैत्रो ब्रवीमि । कथं नाव्ये च दक्षा वयम् इत्यादि, दक्षत्वादीनां विधेयत्वेनाविशेषणत्वाद् भविष्यति । यदन्यमानमवच्छेदकं तद्विशेषणमिति । एकानेकखभावस्यात्मनोऽनेकस्वभावविवक्षायां बहुवचनं सिद्धमेव, सविशेषणपतिषेधार्थन्तु वचनम् ॥ फल्गुनी प्रोष्ठपदस्य भे॥२।२। १३३ ॥ वर्तमानस्य द्वावौँ बहुवद्वा । कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः । कदा पूर्व पोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। भ इति किम् । फल्गुनीषु जाते फल्गुन्यौ माणविके । द्वाविसेव । तेन एकस्मिन् ज्योतिषि न स्यात् । दृश्यते फल्गुनी । एकवचनान्तः प्रयोग एव नास्तीखन्ये, शब्दपरनिर्देशात् पर्यायस्य माभूत् । अद्य पूर्वे भद्रपदे ॥ गुरावेकश्च ॥२।२।१२४ ॥ गौरवाहेऽर्थे वर्तमानस्य शब्दस्य द्वावेकश्वार्थो बहुवदा । त्वं गुरुः, यूयं गुरवः । युवां गुरू, यूयं गुरवः । एष मे पिता, एते मे पितरः । आपः, दाराः गृहाः, चर्षाः, पश्चालाः, जनपदः, गोदौ ग्रामः, | खलतिकं वनानि, पञ्चालमयुरे, पञ्चाभिरूपो मनुष्य इति सर्वलिङ्गसङ्ये वस्तुनि स्याद्वादमनुपतति मुख्योपचरितार्थानुपातिनि शब्दात्मनि रूदितस्तल्लिासङ्ख्योपादानव्यवस्थानुसतव्या ॥
॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेत- विचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपो
गच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां कारकाणि ॥