________________
SOME
कार
काणि
॥३७॥
M
GMAIHAGRAMMAGESMARAN
॥२।२।११३ ॥ युक्तात्तृतीया । पृथग्मैत्रात् मैत्रेण वा । नाना चैत्रात चैत्रेण वा । अन्यार्थत्वे पूर्वेण पञ्चमी सिद्धैव तृतीयाथै वचनम् । असहायार्थत्वे तु पञ्चम्यर्थमपि । अन्ये तु द्वितीयामपीच्छन्ति ॥ऋते द्वितीया च ॥ २।२। ११४ ॥ युक्तात्पञ्चमी । ऋते धर्मात् धर्म वा कुतः सुखम् । द्वितीयां नेच्छन्त्येके ॥ विना ते तृतीया च ॥२।२।। ११५ ॥ युक्ताद् द्वितीयापञ्चम्यौ । विना वातात् वातेन वातं वा । द्वितीयां नेच्छन्त्यन्ये ॥ तुल्यार्थस्तृतीयाषष्ठ्यौ ॥२।२ । ११६ ॥ युक्ताद् । मात्रा मातुर्वा तुल्यः समो वा । उपमा नास्ति कृष्णस्येत्यादौ उपमादयो न तुल्यार्थाः । गौणाधिकारात् गौरिव गवय इसादौ न । तृतीयामविकल्प्य षष्ठीविधानं सप्तमीबाधनार्थम् । तेन गवां गोभिस्तुल्यः स्वामीत्यत्र न सप्तमी ॥ द्वितीयाषष्ठ्यावेनेनानश्चेः ॥२।२।११७ ॥ युक्तात् । पूर्वेण ग्रामं ग्रामस्य वा । अनञ्चेरिति किम् । प्राग्ग्रामात् ॥ हेत्वर्थस्तृतीयाद्याः ॥२।३।११८ ॥ युक्तात् प्रत्यासत्तेस्तैरेव समानाधिकरणात् । धनेन हेतुनेत्यादि । एवं निमित्तादियोगेऽपि । समानाधिकरणादिति किम् । अन्नस्य हेतुः । अन्ये तु हेत्वर्थशब्दयोगे तु || षष्ठीमेवेच्छन्ति । असर्वाद्यर्थमिदम् ॥ सर्वादेः सर्वाः॥२।२।११९ ॥ हेत्वर्थैर्युक्तात् । को हेतुः, के हेतुमित्यादि । तत्समानाधिकरणादित्येव । कस्य हेतुः । प्रथमां नेच्छन्येके । द्वितीयामपरे ॥ असत्त्वारादर्थाट्टाङसिङ्यम् ॥२।२ ।१२० ।। गौणादिति निवृत्तम् । दूरेण दूरात् दूरे दूरं वा । अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामाद्वा वसति । एवं विमकृष्टेन अभ्यासेनेत्यादि । केचिदारादः पञ्चम्यन्तैर्युक्तात् पञ्चमी नेच्छन्ति । पञ्चम्पा अपि दर्शनान्न तत्सर्वसम्मतम् । दूरादावसथान्मूत्रम् । असत्त्व इति किम् । दूरः पन्थाः॥ जात्याख्यायां नवैकोऽप्सयो बहुवत् ॥२।२ । १२१ ॥ सम्पन्ना यवाः, सम्पन्नो यवः । जातेरेकखादेकवचन एव प्राप्ते बहुवचनार्थ बहुवद्भाव उच्यते । जातीति किम् । चैत्रः । आख्यायामिति किम् । काश्यपप्रतिकृतिः काश्यपः । भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते किन्तर्हि प्रतिकृतिः। एक इति किम् । सम्पन्नौ व्रीहियवौ । " मगधेषु स्तनौ पीनौ कलिङ्गवक्षिणी शुभे
ACHAMPLOCABIRTHCANCLUGk