________________
कारकाणि
हेमप्रभात । आयुक्तस्तपसि तपसो वा । आसेवायामिति किम् । कुशलचित्रे न करोति । आयुक्तो गौः शकटे । आकृष्य युक्त इ
त्यर्थः । आधारस्याविवक्षायां विकल्पे सिद्धेऽनासेवायामाधाराविवक्षानिवृत्त्यर्थं वचनम् ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः॥२।२।९८॥ एभिर्युक्तादा सप्तमी । गोषु गर्वा वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतो वा, सप्तम्यर्थं वचनम् ॥ व्याप्ये क्तनः ॥२।२।९९॥ नित्यं सप्तमी । अधीतमनेनेति अधीति व्याकरणे । इष्टी यज्ञे । क्तेन इति किम् । कृतपूर्वी कटम् । इन इति किम् । उपश्लिष्टो गुरून् मैत्रः । व्याप्य इति किम् । मासमधीती व्याकरणे । मासान् माभूत् ॥ तद्युक्त हेतौ ॥२।२ । १०० ॥ वर्तमानात् सप्तमी । “चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीन्नि पुष्कलको हतः"॥१॥ व्याप्येन युक्त इति किम् । धनेन वसति । हेताविति किम् । देवस्य पादौ स्पृशति । हेतुतृतीयापवादः ॥अप्रत्यादावसाधुना ।।२।२।१०१ ॥ युक्तात्सप्तमी । असाधुमैत्रो मातरि । प्रत्यादिपयोगाभाव इति किम् । असाधुमैत्रो मातरं प्रति परि अनु अभि वा॥ | साधुना ॥२।२।१०२ ॥ अप्रत्यादौ युक्तात् सप्तमी । साधुमैत्रो मातरि । अपत्यादावित्येव । साधुर्मातरं पति परि | | अनु अभि वा ॥ निपुणेन चार्चायाम् ॥२।२।१०३ ॥ साधुना युक्तादप्रत्यादौ सप्तमी । षष्ठ्यपवादः । मात| रि निपुणः साधुर्वा । अर्चायामिति किम् । निपुणो मैत्रो मातुः । माता एवैनं निपुणं मन्यते । अपत्यादावित्येव । निपुणो | मैत्रो मातरं प्रति पर्यनु वा ॥ स्वेशेऽधिना ॥२।२।१०४॥ वर्तमानायुक्तात्सप्तमी । अधि मगधेषु श्रेणिकः। अधि | श्रेणिके मगधा। षष्ठीबाधनार्थो योगः॥ उपेनाधिकिनि ॥२।२।१०५ ।। युक्तात् सप्तमी। उप खायी द्रोणः । अधिकिनीति किम् । अधिके माभूत् । तेन उप द्रोणे खारीति न स्यात् ॥ यद्भावो भावलक्षणम् ॥२।२।१०६ ॥ यस्य भावेनान्यो भावो लक्ष्यते तद्बाचिनः सप्तमी । देवार्चनायां क्रियमाणायां गतः, कृतायामागतः ।. अत्र कालत: प्रसिद्धेन देवार्चनेनापसिद्धं ममनं लक्ष्यते । गम्यमानेनापि भावेन भावलक्षणे भवति । आनेषु कलाययात्रेषु गतः, पके
GRATRUCHARIOUSANGAURANG
SSOCOMSAAMGANGACANCELECTECRURUSS