________________
HESHI***06*XX ASIA
अलं किम् एवं प्रकाराः कृतादयः॥ काले भान्नवाधारे ॥२॥२॥४८॥ तृतीया । पुष्येण पुष्ये वा पायसमश्नीयात् । काले किम् । पुष्येऽर्कः। भादिति किम् । तिलपुष्पेषु यत्तीरम् । आधारे किम् । अद्य पुष्यं विद्धि । षष्ठी माभूदिति वचनम् ॥ प्रसितोत्सुकावबढेः॥२॥२॥४९॥ युक्तादाधारवृत्तेस्तृतीया वा । केशेषु केशैर्वा प्रसितः, उत्सुकः, अवबद्धः । बहुवचनमेकद्विवहाविति यथासङ्ख्यनिवृत्त्यर्थम् । पूर्ववद्वचनम् । साहचर्यात् प्रसित उत्सुकार्थः॥ व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ॥२॥२॥५०॥वा तृतीया । द्विद्रोणेन, द्विद्रोणं वा धान्यं क्रीणाति । पञ्चकेन पञ्चकं पञ्चकं वा पशून क्रोणाति ॥ समो ज्ञोऽस्मृतौ वा ॥२।२।५१॥ व्याप्यातृतीया । मात्रा मातरं वा संजानीते । अस्मृताविति किम् । मातरं संजानाति । वा ग्रहणादुत्तरत्र वा निवृत्तिः ॥ दामः सम्प्रदानेऽधर्म्य आत्मने च ॥२।२। ५२ ॥ संपूर्वस्य वर्तमानात्तृतीया । दास्या सम्पयच्छते कामुकः । अधर्म्य इति किम् । पल्यै सम्पय
छति ॥ चतुर्थी ॥२।२।५३ ॥ सम्मदाने वर्तमानात् । शिष्याय धर्ममुपदिशति ॥ तादर्थे ॥२।२।५४ ॥ सम्बन्धविशेषे द्योत्ये गौणानाम्नष्षष्ठ्यपवादश्चतुर्थी । यूपाय दारु । रन्धनाय स्थाली ॥ रुचिक्लप्त्यर्थधारिभिः प्रेयविकारोत्तमणेषु ॥२॥२॥५५॥ वर्तमानाच्चतुर्थी । मैत्राय रोचते धर्मः। मूत्राय करपते यवागूः । मैत्राय शतं धारयति । गौणादित्येव । मूत्रमिदं सम्पद्यते यवागूः । मूत्रं सम्पद्यते यवाग्वा इति अपायविवक्षायां पञ्चमी ॥प्रत्याङ श्रुवार्थिनि ॥२॥२॥५६॥ युक्तात् वर्तमानाच्चतुर्थी । द्विजाय गां प्रतिगृणाति, अनुगृणाति वा ॥ यद्वीक्ष्ये राधीक्षी॥२।२।५८ ॥ वर्तेते तवृत्तेश्चतुर्थी । मैत्राय राध्वति ईक्षते वा । ईक्षितव्यं परखीभ्यः स्वधर्मो रक्षसामयम् । दैव एवेक्ष्य इच्छन्त्येके । राधीक्ष्यर्थधातुयोगेऽपीच्छन्त्यन्ये । वीक्ष्य इति किम् । मैत्रमीक्षते ॥ उत्पातेन ज्ञाप्ये ॥२ ।२।५९॥ वर्तमानाचतुर्थी । " वाताय कपिला विद्युदातपायाति लोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥१॥ उत्पातेन किम् । राज इदं छत्रम् आयान्तं विद्धि राजानम् ॥ श्लाघहस्थाशपा प्रयोज्ये ॥ २।२।
मानात्तृतीया । ग्रहणादुत्तरत्र वानि ॥ व्याप्यात
AGAGANAGAURATRIGANGANAGAR