________________
टलिपुत्रका अभिरूपतराः ३ । अपायश्च कार्यसंसर्गपूर्वको बुद्धिसंसर्गपूर्वकश्च विभाग उच्यते । तेनाधमज्जुिगुप्सते, विरमति धर्मात्ममाद्यति, शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति । मेषान्मेषोऽपसर्पति । विषक्षान्तरे त्वपादानत्वाभावे यथायोगं विभक्तयो भवन्ति । शृङ्गे शरो जायते इत्यादि ॥ क्रियाश्रयस्याधारोऽधिकरणम् ॥ २ । २ । ३२ ॥ कर्तुः कर्मणो वा । आधारसंज्ञापि । तत्षोढा वैषयिक मौपश्लेषिकमभिव्यापकं सामीप्यकं नैमित्तिकमौपचारिकं चेति । दिवि देवाः । कटे आस्ते । तिलेषु तैलम् । गङ्गायां घोषः । युद्धे सन्नह्यते । अङ्गुल्यग्रे करिशतम् ॥ नाम्नः प्रथमैकद्विवहौ ।। २ । २ । ३१ ॥ वर्त्तमानात् स्वार्थे । स्वार्थद्रव्यलिङ्गसङ्ख्योक्तशक्तिलक्षणः समग्रोऽसमग्रो वा पञ्चको नामार्थोऽर्थमात्रम् । तेषु शब्दस्यार्थे प्रवृत्तिनिमित्तं स्वरूपजातिगुणक्रियाद्रव्यसम्बन्धादिरूपं त्वतलादिप्रलयाभिधेयं स्वार्थः । स च भावो विशेषणं गुण इति चाख्यायतो डित्थः । गौः । शुक्लः । कारकः । दण्डी । राजपुरुषः । गर्गाः । यत्पुनरिदंतदित्यादिना व्यपदिश्यते स्वार्थस्य व्यवच्छेद्यं लिङ्गसङ्ख्याशक्त्याद्याश्रयः सत्त्वभूतं द्रव्यं विशेष्यमिति । इयं जातिः । अयं गुणः । इदं कर्मेति । यदर्थे सदसद्वा शब्दव एवावसीयते तद्ङयावादिसंस्कारहेतुः स्त्री पुंमान् नपुंसकमिति लिङ्गम् । तच्च शब्दधर्म इत्येके । अर्थधर्म इत्यन्ये । उभयथापि न दोषः । स्त्री पुमान् । नपुंसकम् । यस्यामेकद्विबहुवचनानि भवन्ति सा भेदप्रतिपत्तिहेतुः सङ्ख्या । एकः । द्वौ । बहवः । " निमित्तमेक इत्यत्र विभक्त्या नाभिधीयते । तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्त्तते " ॥ १ ॥ यस्यामनभिहितायां द्वितीयाद्या व्यतिरेकविभक्तयः षष्ठी च भवति । सा कारकरूपा तत्पूर्वक सम्बन्धरूपा च शक्तिः । क्रियते कटः । अर्यमात्रं चोपचरितमपि । उपचारथ साहचर्यस्थानतादर्थ्यचमानधरणसामीप्ययोगसाधनाधिपत्यैः । कुन्ताः प्रविशन्ति इत्यादि । अलिङ्गसङ्ख्यमपि । उच्चैः । शक्तिमधानमपि यतः । द्योत्यमपि । प्रपचति । स्वरूपमात्रमपि । अध्यागच्छति । त्याद्यन्तपदसामानाधिकरण्ये प्रथमेति तत्त्वम् । यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते । नान्न इति किम् । निरर्थकाद्वर्णाद्धातुवाक्याभ्यां च माभूत् ।