________________
हेमप्रभा.
॥ ३२ ॥
एकवि हाषिति च सङ्करनिवृत्त्यर्थम् । अव्ययेभ्यस्तु एकत्वाद्यभावेऽपि अध्ययस्येति लुर्विधानात् विभक्तिविविः । तत्फलमथो स्वस्ते गृहन् । आमन्त्रये ।। २ । २ । ३२ ।। नाम्नः प्रथमा । हे देव | आमन्त्रये इति किम् । राजा भव । पठीमाप्तौ वचनम् ॥ गौणात् समयानिकषाहाधिगन्तरान्तरेणातियेनतेनैर्बितीया ।। २ । २ । ३३ ।। समया ग्रामम् । निकषा गिरिम् | हा मैत्रं व्याधिः । धिक् जाल्मम् । अन्तरान्तरेण च निषधं नीलं च विदेहाः । अन्तरेण धर्मे न सुखम् । साहचर्यानिपातावेतौ । अतिवृद्धं कुरूम्महद्बलम् । येन पश्चिमां गतः । तेन पश्चिमां नीतः । हा कृतं चैत्रस्येत्यादौ न साक्षात् हादियुक्तत्वेन विवक्षा । बहुवचनादन्येनापि योगे द्वितीया बुभुक्षितं न प्रतिभाति किञ्चित् । गौणादिति किम् । अन्तरा गाईपत्यमाहवनीयं च वेदिः ॥ द्वित्वेऽधोऽध्युपरिभिः ।। २ । २ । ३४ ॥ यांगे गौणान्नाम्नो: द्वितीया । षष्ठ्यपवादः । बहुवचनमेकद्विवहाविति यथासङ्ख्यनिवृत्त्यर्थम् । अधोऽधः, अध्यधि, उपर्युपरि ग्रामम् । एषां द्वि इति किम् । अधः प्रासादस्य । असामीप्याद्वित्त्वं न ॥ सर्वाभयाभिपारणा तसा ॥ २ । २ । ३५ ॥ युक्ताद् गीणानाम्नोद्वितीया । सर्वत उभयतोऽभितः पेरिता वा ग्रामं क्षेत्राणि ॥ लक्षणवीपस्येत्थंभूतेष्वमिना ॥ ३ । २ । ३६ ।। युक्ताद्वर्त्तमानाद् गौणान्नाम्नो द्वितीया । वृक्षमभि विद्योतते विद्युत् । वृक्षं वृक्षमभिसेकः । साधुमैत्रो मातरभि । लक्षणादिषु किम् । यदत्र ममाभि स्यात् तदीयताम् ।। भागिनि च प्रतिपर्यनुभिः ।। २ । २ । ३७ ।। लक्षणादिषु वर्त्तमानाद् गणानाम्नोद्वितीया । यदत्र मां प्रवि, परि, अनु, वा स्यात् तदीयताम् । वृक्षं प्रति, परि, अनुवा विद्युत् | वृक्षं वृक्षं प्रति, परि, अनु, वा सिश्चति । साधुर्देवदत्तो मातरं प्रतिपर्यनु वा । एतेषु किम् । अनु वनस्याशनिता ॥ हेतुसहार्थेऽनुना ।। २ । २ । ३८ ।। हेतुर्जनकः । सहार्थस्तुल्ययोगो विद्यमानता च तद्विषयोऽपि उपचारात् । तयोर्वर्तमानादनुना युक्तात् द्वितीया । जिनजन्मोत्सवमन्वागच्छन् सुराः । गिरिमन्ववसिता सेना । तृतीयापवादी योगः ॥ उत्कृष्टेऽनूपेन ॥ २ । २ । ३९ ॥ युक्ताद् द्वितीया । अनु सिद्धसेनं कवयः । अनु मल्लवादिनं तार्किकाः । अनु
कारकाणि
॥ ३२ ॥