________________
हेमप्रभा॥ ३१ ॥
आस्ते । अकर्म चेति किम् । मासमास्यते । गोदोहमासितः । अकर्मणामिति किम् । रात्रावुद्देशोऽधीतः । पचत्योदनं मांसमित्यादि तु द्विकर्मकत्वाद् भविष्यति । अन्ये तु सकर्मकाणामकर्मकाणां च प्रयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमिच्छन्ति । दिवसं पचत्योदनमित्यादि । अनेन कर्मसंज्ञायां कर्मणि त्याद्यादयोऽपि । मास आस्यते । काला ध्वनोर्व्याप्ताविति च गुणद्रव्ययोगे एवेच्छन्ति न तु क्रियायोगे । अत्यन्तसंयोगादन्यत्र तु रात्रौ शेते इत्यादावाधारत्वमेव ॥ साधकतमं करणम् ॥ २ । २ । २४ ॥ क्रियायां कारकम् । दानेन भोगानाप्नोति । तमग्रहणमपादानादिसंज्ञायां तरतमयोगो नास्तीति ज्ञापनार्थम् । तेन कुलात्पचति । गङ्गायां घोषः । अस्य च कारकान्तरापेक्षया प्रकर्षो न स्वकक्षायाम् | तेनैकस्यां क्रियायामनेकमपि करणं भवति । नाषा नदीस्रोतसा व्रजति । यद्व्यापारानन्तरं क्रियासिद्धिर्विवक्ष्यते तत्साधकतमम् ॥ कर्माभिप्रेयः सम्प्रदानम् ।। २ । २ । २५ ।। व्याप्येन क्रियया वा यं श्रद्धानुग्रहादिकाम्ययाभिसम्बध्नाति स कर्माभिमेयः । देवाय बलिं ददाति । शिष्याय ज्ञानमुपदिशति । राज्ञे कार्यमाचष्टे । पत्ये शेते । देवेभ्यो नमति । अभिग्रहणादिह न । नतः पृष्टं ददाति । इह च स्यात् छात्राय चपेटां प्रयच्छति ॥ स्पृहेर्व्याप्यं वा ॥ २ । २ । २३ ॥ सम्प्रदानं । वने पुष्पेभ्यः पुष्पाणि वा स्पृहयति । सम्प्रदानत्वपक्षेऽकर्मकत्वम् । तेन पुष्पेभ्यः स्पृह्यते मैत्रेणेत्यादौ भावे आत्मने पदादयः ॥ कुदुदुहेर्ष्यासूयार्थैर्य प्रति कोपः ॥ २ । २ । २७ ॥ तत्सम्प्रदानम् । मैत्राय क्रुध्यति, दुह्यति, ईर्ष्यति, असूयति, रुष्यति, इत्यादि, ये प्रतीति किम् । मनसा क्रुध्यति । मैत्रेण क्रुध्यते । कोप इति किम् । शिष्यस्य कुप्यति विनयार्थम् । सम्प्रदानसंज्ञया कर्मसंज्ञाया बाधनाद्भाने आत्मनेपदादयः । मैत्रायेष्यते । इत्यादि । नोपसर्गात् क्रुहा ॥ २ । २ । २८ ॥ यं प्रति कोपस्तत्सम्पदानम् । मैत्रमभिक्रुध्यति, अभिद्रुह्यति । क्रुधिही सोपसर्गी सकर्मक | अपायेऽवधिरपादानम् ॥ २ । २ । २९ ।। अपायेनानधिष्ठितः । तदेतत्रिविधम् । निर्दिष्टविषयम् । उपाचविषयम् २ | अपेक्षितक्रियम् ३ च । ग्रामादागच्छति ॥ कुमुलकात्पचति २ । साकाश्यकेभ्यः पा
कारकाणि
॥ ३१ ॥