________________
RAMESSAGARCISIONALSOURCE
। चौरं बन्धनाजासयति । अभावककार्थ वचनम् ॥ निमेभ्यो नः॥२॥२॥१५॥ व्याप्य कर्म वा । बहुवचनं
समस्तव्यस्तविपर्यस्तपरिग्रहार्थम् । चौरस्य चौरं वा निहन्ति । निहन्ति, प्रहन्ति, पणिहन्ति । हिंसायामित्येव । रागादीहा निहन्ति ॥ विनिमेयद्यूतपणं पणव्यवहोः ॥२।२।१६ ॥ व्याप्यं कर्म था । शतस्य शतं वा पणायति । दशानां
दश वा व्यवहरति । विनिमेयद्यूतपणमिति किम् । साधुन् पणप्रयति । शलाका व्यवहरति । वचनभेदो यथासङ्ख्यनिवत्यर्थः। उपसर्गादिवः॥२।२।१७॥ व्याप्यौ विनिमेयधूतपणौ कर्म वा । शतस्य शतं वा प्रदीव्यति ॥न ॥२ ।२।१८ ॥ अनुपसर्गस्य दिवो विनिमेयद्यूतपणौ च्याप्यो कर्म न ॥ शतस्य दीव्यति । अकर्मकत्वादीन्यते धूतं देवितव्यं मुदेवमित्यादौ भावे आत्मनेपदक्तकृत्यखलः कर्तरि च क्तः सिद्धाः॥ भूमि दीव्यतीत्यत्र तु सन्धिपणः। द्यूतं दीव्यति, अक्षान् दीव्यतीत्यत्र न पणो व्याप्यं किन्तु क्रिया तत्साधनञ्च ॥ करणश्च ॥३।२।१९॥ दिवः करणं कर्मकरणच युगपत् । अक्षाना दीव्यति अक्षैर्देवयते मैत्रश्चैत्रेणेत्यत्र करणत्वात्तृतीया, कर्मत्वाचाणिक्कर्तुः कर्मत्वं परस्मैपदं च न भवति । अक्षान् दीव्यतीत्यत्र करणत्वनिमित्ता तृतीयैव परत्वात् स्यादिति न शङ्क्यं स्पर्धाभावात् । प्रतिकार्य संज्ञा मिद्यन्ते इति न्यायाद्वा । अधेः शीङ्स्थास आधारः॥२।२।२०॥ कर्म । ग्राममधिशेते । अधितिष्ठति, अध्यास्ते । अकर्मका अपि धातवः सोपसर्गाः सकर्मका इति सिद्धं सकर्मकत्वं आधारवाधनार्थ तु वचनम् ॥ उपान्बध्यावसः ॥२।२।२१॥ आधारः कर्म स्यात् । ग्राममुपवसति । अनुवसति, अधिवसति, आवसति, साहचर्याटपस्य स्थानार्थस्यैव ग्रहणम् । तेनेह न । ब्रामे उपवसति । अदाधनदायोरनदादेरेव ग्रहणमितिवस्ते ने ॥ वाभिनिविशः॥२।२।२२ ॥ आधारः कर्म । व्यवस्थितविभाषेयम् । तेन ग्राममभिनिवित्रते, कल्याणेऽभिनिविशते ॥ कालाध्वभावदेशं वा कर्मचाकर्मणाम् ॥२।२।२३॥ आधारः कर्म युगपत् । मासमास्ते । मासे आस्यते । को स्वपिनि । मोदोहमास्ते । कुरूनास्ते । भविवलितकर्माणोऽप्यकर्मकाः। मासं पचति । कालादि फिम् । प्रासादे
ॐॐॐAREE