________________
हेमप्रभा. ॥ २८ ॥
किम् । तिथिरिः । जातेः किम् । निष्कौशाम्त्रिः । उत्तोऽप्राणिनश्वायुरज्ज्वादिभ्य ऊङ् ॥ २ । ४ । ७३ ॥ नुर्जातिवाचिनः स्त्रियाम् । कुरूः । कर्कन्धूः । ब्रह्मा बन्धुरस्यां ब्रह्मबन्धरित्यत्र परोऽपि कच् न तंत्र बदुलाधिकारात् । उतः किम् । वधूः । ङि हि सति अतिवधूरि हस्वः स्यात् । अमाणिनः किम् । आखुः । जातेरित्येव पटुः । खादिवर्जनात् अध्वर्युः । रज्जुः । हनुः । बहुवचनमाकृतिगणार्थम् । कयं भीरु गतं निवर्त्तते । ताच्छीलिंकानां संज्ञाप्रकारत्वेन मनुष्यजातिवचनत्वात् भविष्यति । अन्ये तु किमभीरुररार्य से इति प्रयोगाज्जातिवचनत्वमनिच्छन्त ऊङ न मन्यन्ते ॥ बाइन्तकद्रुकमण्डलोर्मानि ॥ २ । ४ । ७४ ॥ खियामूङ् । मद्रबाहूः । कद्रूः । कमण्डलुः । नान्नि किम् । वृत्तवाहुः । उपमानसहितसंहितसदृशफवामलक्ष्मणाद्यूरोः ॥ २ । ४ । ७५ ॥ स्त्रियामूङ् । करभोरूः । एवं सहितोरूरित्यादयः । उपमानादेरिति किम् । पीनोरुः । कथं हस्तिस्वाम्यूरुः । नात्रोरुशब्द उपमानादिपूर्वः किन्तु स्वाम्यूरुः ॥ नारीसखीपश्वश्रू ॥ २ । ४ । ७३ ।। एते निपात्याः ॥ यूनस्तिः ॥ २ । ४ । ७७ ।। स्त्रियाम् उयपवादो योगः । युवतिः । युवतीत्यत्र तु इतोऽत्यर्थादिति ङीर्भविष्यति । मुख्यांदित्येव । निर्यूनी ॥ अनार्षे वृद्धेऽणित्रो बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः ॥ २ । ४ । ७८ ॥ कारीषगन्ध्या । वाराह्या । अनार्षे किम् । वासिष्ठी । दृद्धे किम् । वाराही | अप्पिन इति किम् । आर्त्तभागी । बहुखरेति किम् । दाक्षी । गुरूपान्त्यस्येति किम् । औपगवी । अणिजन्तस्य सतो बहुस्वरस्येति किम् । दौवार्या । स्त्रियामित्येव । वाराहिः । मुख्यस्येत्येव । बहुकारीषगन्धाः । सौधर्मीत्यादि तु गौरादिपाठात् गुरुग्रहणादनेकव्यञ्जनव्यवधाने ऽपि भवति ॥ प्या पुत्रपत्योः केवलयोरीच्ं तत्पुरुषे ॥ २ । ४ । ८३ ॥ कारीषगन्धपुत्रः । कारीषगन्धीपतिः । ष्येति किम् । इभ्यापुत्रः । केवलयोरिति किंम् । कारीषगन्ध्यापुत्रकुलम् । तत्पुरूप इति किम् । कारीषगन्ध्यापतिः । मुख्य इत्येव । अतिकारीषगन्ध्यापुत्रः ॥ बन्धी बहुव्रीही ॥ २ । ४ । ८४ ॥ मुरूयावन्तष्यः केवले ईच् । कारीषगन्धीबन्धुः । केवल इत्येव । कारीषगन्ध्याबन्धुकुलम् । मुख्य इत्येव । अतिकारीषग
स्त्री
प्रत्ययाः
॥ २८ ॥