________________
कतमः । कतरः । अन्यतमः । अन्यतरः । पक्षे यको यो वा । सकः स वा भवतां कठ इत्यादि । वैकात् ॥ ७ । ३ । ५५ ।। बहूनामेकस्मिन्निधायें डतमः । एकतमः । एककः । एको वा भवतां कटः ॥ क्तात्तमयादेश्वानत्यन्ते ॥ ७ ॥ ३ । ५६ ।। कप् । अनत्यन्तं भिन्नं । भिन्नकम् । भिनतमकम् । भिन्नतरकम् ॥ न सामिबचने ॥ ७ । ३ । ५७ ॥ उपपदे अनत्यन्तार्थात् कान्तात् केवलात्समवाद्यन्ताच कप् ॥ सामि अनत्यन्तं भिन्नम् । अर्धमनत्यन्तं भिन्नम् ॥ नित्यं अभिनोऽण् ॥ ७ । ३ । ५८ || स्वार्थे । नित्यग्रहणान्महाविभाषा निवृत्ता । व्यावक्रोशी । सां कूटिनम् । विसारिणो मत्स्ये ॥ ७ । ३ । ५९ || स्वार्थेऽण् । विसरतीति विसारी । ग्रहादित्वाण्णिन् । वैसारिणो मत्स्यः । विसारी अन्यः ॥ पूगादमुख्यकाञ्ञ्ज्यो द्रिः ॥ ७ । ३ । ६० ॥ नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगाः । तद्वाचिनो नान्नः स्वार्थे यः स च द्रिसंज्ञः, न चेत्पूगार्थ मुख्यार्थकान्तम् । लौहध्वण्यः । लोहध्वजाः पूगाः । अमुख्यकादिति किम् ? देवदत्तकः पूगः ॥ व्रातादखियाम् ॥ ७ । ३ । ६१ ॥ नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा व्राताः, तदर्थात्स्वार्थे ज्यो द्रिः ॥ कापोतपाक्यः । अखियामिति किम् ? । कपोतपाका ॥ शत्रजीविसंघाज्यड् वा ॥ ७ । ३ । ६२ ॥ स्वार्थे, स च द्रिः । शावर्यः । शबराः । पुलिन्दाः । पक्षे शरः । संघ किम् ? वागुरः ॥ वाहीकेष्वब्राह्मण राजन्येभ्यः ॥ ७ । ३ । ६३ ॥ शस्त्रजीविसंघवाचिनः स्वार्थे ष्यटू स द्रिः । कौण्डीविश्यः । कुण्डीविशाः । अब्राह्मणेत्यादिति कि ? गौपालिः । राजन्यः ॥ घृकाट्टेण्ण् ॥ ७ । ३ । ६४ ॥ शस्त्रजीविसंघवाचिनः स्वार्थे स च द्रिः । वार्केण्यः । वृकाः । वाहीकने नित्यमवाहकत्वे तु विकल्पेन यटि प्राप्ते वचनम् । एवमुत्तरसूत्रत्रयमपि ॥ यौधेयादेरन् ॥ ७ । ३ । ६५ । शस्त्रजीविसंघार्थाद् द्रिः । यौधेयः । घार्त्तयः ॥ पर्श्वदेरणू ॥ ७ । ३ । ६६ ॥ शखजीविसंघार्थात् स्वार्थे द्विः । पार्शवः । राक्षसः । स्त्रियां तु पशुः । ब्रेरमणोऽप्राच्यभर्गादेरित्यणो लुपि उतोऽप्राणिनश्चेत्यादि नोङ् ॥ दामन्यादेरीयः ॥ ७ । ३ । ६७ ॥ शस्त्रजीवि -