________________
हेम
प्रभा१०४
तनम् । नूत्नम् । नव्यम् || प्रात्पुराणे नश्च ।। ७२ । १६१ ।। इनतनत्नाः । प्रणम् । प्रीणम् । प्रतनम् । प्रत्नम् । पुराणमित्यर्थः ॥ देवा ।। ७ । २ । १६२ || स्वार्थे वा । देवता ॥ होत्राया ईयः ॥ ७ । २ । १६३ || स्वार्थे वा | होत्रीयम् || भेषजादिभ्यष्टद्यण् ॥ ७ । २ । १६४ ।। स्वार्थे वा । भैषज्यम् । आनन्त्यम् ॥ प्रज्ञादिभ्योऽण् ।। ७ । २ । १६५ ।। स्वार्थे वा । प्राज्ञः । वाणिजः ॥ श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ।। ७ । २ । १६६ ॥ यथासंख्यं स्वार्थेऽण् वा । श्रौत्र वपुः । औषधं भेषजम् । काष्ण मृगः ॥ कर्मणः सन्दिष्टे ॥ ७ । १ । १६७ ॥ स्वार्थेऽण वा । अन्येनान्योऽन्यस्मै यदाह स्वयेदं कार्यमिति तत्सन्दिष्टं कर्म । कार्मणं करोति । सन्दिष्टं कर्म करोतीत्ययैः ॥ वाच इकण् ॥ ७ । २ । १६८ ॥ सन्दिष्टे | वाचिकं वक्ति ॥ विनयादिभ्यः । ७ । २ । १६९ ॥ स्वार्थे इकण वा । वैनयिकम् । सामयिकम् । उपायाद् हस्वश्च ।। ७ । २ । १७० ॥ स्वार्थे इकण वा । औपयिकम् ॥ मृदस्तिकः ॥ ७ । २ । १७१ ।। स्वार्थे वा । मृत्तिका । मृत् ॥ सस्नौ प्रशस्ते ॥ ७ । २ । १७२ ॥ मृदो वा । मृत्सा मृत्स्ना || प्रकृते मयट् ॥ ७ । ३ । १ ॥ स्वार्थे प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । अन्नमयम् । पूजामयम् । अस्मिन् ॥ ७ । ३ । २ । प्रकृतार्थान्मयटू । अन्नमयं भोजनम् ॥ तयोः समूहवच्च बहुषु ।। ७ । ३ । ३॥ प्रकृतेऽस्मिन् इत्येतयोर्विषययोर्मयट् । आपू पकम् । अपूपमयम् अपूपास्तत्पर्व वा ॥ निन्द्य पाश ॥ ७ । ३ । ४ । स्वार्थे । वैयाकरणपाशः ॥ प्रकृष्टे तम ॥ ७ । ३ । ५ ॥ सुकुपारतमः । कारकनमः । पकारः पुंवद्भावार्थः ॥ वान्तिततमान्तितोऽन्तियान्तिषद् ।। ७ । ४ । ३१ ॥ एते तमवाद्यन्नाः कृततिकादिलोपादयो वा निपात्यन्ते । अतिशयेनान्तिक अन्तमः । अत्र तिकशब्दलोपो नो मशान इति सच्चाभावश्च निपात्यने । पक्षे अन्तिकतमः । अन्तिमः । अत्र कं शब्दस्य लोप: । अन्तिकतमः । अन्तितः। अपादानलक्षणे तसौ कस्य लोपः । अन्तिकतः । अन्तिके साधुः । अन्तियः । कलोप इकारस्य च लोपाभावः । अन्तिकथः। अन्तिके सीइति अन्तिपत् । अत्र कलोपः सस्य पत्वं च । पक्षे अन्ति
तद्धि
प्रक०
१०४