________________
-BRTNGRECORRECENGAGRECOGA
सुखादेः॥७।२।६३ ॥ मत्वर्थे । इन्नेव । सुखी । दुःखी ॥ मालायाः क्षेपे ॥ ७॥२॥६४॥ मत्वर्थ इन्नेव । माली । क्षेप इति किम् ? । मालावान् ॥ धर्मशीलवर्णान्तात् ॥७॥२॥६५॥ मत्वर्थे इन्नेव । मुनिधर्मी । यतिशीली । ब्राह्मणवर्णी ॥ बाहूर्वादेबलात् ॥७।२।६६ ॥ मत्वर्थे इन्नेव । बाहुबली । ऊरुबली ॥ मन्माब्जादेर्नाम्नि ।। ७।२।६७ ॥ मत्वर्थे इन्नेव । दामिनी । सोमिनी । अब्जिनी । कमलिनी ॥ हस्तदन्तकराज्जातौ ॥ ७।२।६८ ॥ मत्वर्थे इन्नेव । हस्ती । दन्ती । करी ॥ वर्णाद्ब्रह्मचारिणि ॥ ७।२। ६९ ॥ मत्वर्थे इन्नेव । वर्णी । ब्रह्मचारीत्यर्थः । वर्णवानन्यः ॥ पुष्करादेर्देशे ॥ ७॥२॥ ७० ॥ मत्वर्थे इन्नेव । पुष्करिणी पद्मिनी । देश इति किम् ? । पुष्करवान् हस्ती ॥ सूक्तसाम्नोरीयः॥ ७॥२।७१ ॥ मत्वर्थे । अच्छावाकीयं मूक्तम् । यज्ञायज्ञीय साम ॥ लुब् वाऽध्यायानुवाके ।। ७।२। ७२ । मत्वर्थे ईयस्य । लुविधेरेवेयोऽनुमीयते । गर्दभाण्डः । गर्दभाण्डीयोऽध्यायोऽनुवाको वा ॥विमुक्तादेरण् ॥ ७॥२।७३॥ मत्वर्थेऽध्यायानुवाकयोः । वैमुक्तः । दैवासुरः अध्यायोऽनुवाको वा॥ घोषदादेरकः ॥ ७।२।७४ ॥ मत्वर्थेऽध्यायानुवाकयोः । घोषदकः । गोपदकः अध्यायोऽनुवाको वा ॥ प्रकारे जातीयर् ।। ७।२ । ७५॥ प्रथमान्तात् षष्ठ्यर्थे । सामान्यस्य विशेषो विशेषान्तरानुपवृत्तः प्रकारः । पटुजातीयः ॥ रिति ॥३।२। ५८॥ परतः स्यनूपुंवत् । पटवी प्रकारोऽस्याः पटुजातीया ॥ कोऽण्वादेः ।।७।२। ७६ ॥ पूर्वमूत्रविषये । अणुकः । स्थूलकः परः ॥ जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिब्रीहितिले ॥७।२ । ७७॥ तदस्य प्रकार इति विषये कः । जोर्णकाशालिः।गोमूत्रकमाच्छादनम् । अवदातिका सुरा । सुरकोऽहिः । यवकोऽहिः । यवको व्रीहिः । कृष्णकास्तिलाः ॥ ।। इति मत्वर्थीयाः॥
RAJASRHANPUR