________________
हेमप्रभा .
।। २६ ।।
ङीः । शोणी । शोणा । बही । बहुः । गुणवचनात्तूत्तरेणैव भविष्यति । त्रन्नो । वृत्रहा । चन्द्रभागानयाम् । चन्द्रभागी चन्द्रभागा | अन्यत्र चन्द्रभागा ॥ इतोऽत्यर्थात् ॥ २ । ४ । ३२ ॥ नान्नः स्त्रियां ङीर्वा । भूमी । भूमिः । अत्यर्थादिति किम् । कृतिः । अजननिः ॥ पद्धतेः ॥ २ । ४ । ३३ ॥ खियां ङीर्वा । पद्धती । पद्धतिः । चयर्थ आरम्भः ॥ शक्तेः शस्त्रे ॥ २ । ४ । ३४ ॥ स्त्रियां ङीव । शक्ती । शक्तिः । शस्त्रे किम् । शक्तिः सामर्थ्यम् ॥ स्वरादुतो गुणादखरोः ॥ २ । ४ । ३५ ।। नाम्नः खियां की। पट्वी । पटुः । गुणाद् द्रव्यवृत्तेः प्रत्ययः । खरात् किम् । पाण्डुर्भूमिः । उत इति किम् । श्वेता । गुणादिति किम् । आखुः । अखरोरिति किम् । खरुः । “सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयवाक्रियाजच सोऽसत्त्वप्रकृतिर्गुणः ॥ १ ॥ पूर्वार्धेन जातिर्गुणो न । आधेयश्चाक्रियाजश्चेत्यनेनोत्पाद्य वैकस्वभावस्य कर्मणो व्यवच्छेदः । अन्त्येन तु द्रव्यव्यवच्छेदः । केचित्तु द्रव्याहृतिनित्यानिसजातिमान् गुण इत्याहुः ॥ श्येतैतहरितभरतरोहिताद्वर्णात्तो नश्च ॥ २ । ४ । ३६ ॥ स्त्रियां ङीर्वा ॥ श्येनी । इयेता । एवमेन्यादयः । लत्वे लोहिनी । लोहिता । वर्णादिति किम् । श्येता । चो नस्य ङीसन्नियोगशिष्टतार्थः ॥ कः पलितासितात् ॥ २ । ४ । ३७ ॥ खियां
तत्सन्नियोगे तस्य क्रश्च । पलिनी । पलिता । असिक्री । असिता || असहनविद्यमानपूर्वपदात् स्वाङ्गादः क्रोडादिभ्यः ॥ २ । ४ । ३८ || अदन्तानाम्नः स्त्रियां ङीव । अतिकेशी । अतिकेशा । सहादिवर्जनात् सकेशा । अ केशा । विद्यमानकेशा । स्वाङ्गात् किम् । बहुयवा । अक्रोडादिभ्य इति किम् । कल्याणक्रोडा । आदित्येव । परमशिखा ॥ " अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥ १ ॥ बहुशोफा । बहुकफा | सुझाता । दीर्घमुखा वाला इत्यत्र स्वागत्वाभावाम कीः । च्युतं चेत्यादि किम् । बहुकेशी रथ्या । पृथुमुखी पृथुमुखा प्रतिमा | कल्याणपाणिपादेत्यत्र स्वाङ्गसमुदायत्वात् वक्ष्यमाणनियमबलाद्वा न ङीः । द्विपदीसत्र तु द्विगुत्वानित्यं ङीः । अस्वाङ्गपूर्वपदादेवेच्छन्त्यन्ये । पाणिपादा ॥ नासिकोदरौष्ठजङ्गादन्तकर्णशृङ्गाङ्गमात्रकण्ठात् ॥ २ । ४ । ३९
स्त्रीप्रत्ययाः
॥ २६ ॥