________________
ख्यादेरित्येव । बादशः॥ पित्तिथट बहुगणपूगसंघात् ॥ ७।१।१६० ॥ संख्यापूरणे । बहुतिथी । गणतियः । पुगतिथः । संघलिथः । पित्करणं पुंचद्भावार्थम् ॥ अतोरिथट् ॥ ७ ॥ १।१६१ ॥ संख्यापूरणे । इयतिथः । तावतिथः ॥ षटकतिकतिपयात् थट् ॥ ७।१।१६२॥ संख्यापूरणे । षष्ठी । कतिथः । कतिपयथः ।। चतुरः॥७॥ १। १६३॥ संख्यापूरणे थट् । चतुर्थी । योगविभाग उत्तरार्थः ॥ येयौ च लुक् च ॥ ७।१।१६४ ॥ चतुरः । संख्यापूरणे । तुर्यः । तुरीयः ॥ देस्तीयः ॥ ७।१।१६५ ॥ संख्यापूरणे । द्वितीयः॥ ब्रेस्तृ च ॥७॥१॥ १६६ ॥ संख्यापूरणे तीयः । तृतीयः॥ पूर्वमनेन सादेश्चन् ॥७।१।१६७ ॥ पूर्वमिति क्रियाविशेषणाद् द्वितीयान्तात् केवलान् साश्च तृतीयाथै कर्तरि इन् । पूर्वी । कृतपूर्वी ॥ इष्टादेः॥७।१ । १६८ ॥ स्यन्ताहार्थे कतरीन् इष्टी । पूर्ती । श्राद्धे व्याप्ये क्तेन इति सप्तमी ॥ श्राहमद्य भुक्तमिकेनौ ।। ७।१।१६९ ॥ कर्तरि । श्राद्धमनेनाद्य भुक्तं श्राद्धिकः । श्राद्धी। श्राडशब्दः कर्मसाधने द्रव्ये वर्तते ॥ अनुपद्यन्वेष्टा ॥ ७।१।१७० ॥ अनुपदमन्वेष्टा अनुपदी गवाम् ॥ दाण्डाजिनिकायःशूलिकपार्श्वकम् ॥ ७॥ १।१७१ ॥ एते ययायोगमिकण्कान्ता निपात्याः अन्येष्टर्यर्थे । दाण्डाजिनिको दाम्भिकः । आयाशूलिकः । तीक्ष्णोपायोऽर्थान्वेष्टा । पार्श्वकोऽनृतपायः स एव ॥ क्षेत्रेऽन्यस्मिन्नाश्य इयः ॥ ७।१।१७२ ॥ सप्तम्यन्तात्क्षेत्रशब्दात् । अन्यस्मिन् क्षेत्रे नाश्यः क्षेत्रियो व्याधिः जारश्च ॥ छन्दोऽधीते श्रोत्रश्च वा ॥ ७।१।१७३ ॥ इयः । छन्दोऽधीते श्रोत्रियः । पक्षे छान्दसः ॥ इन्द्रियम् ॥ ७।१।१७४ ॥ इन्द्रादियो निपात्यः । इन्द्रस्य लिङ्गमिन्द्रियम् ।। तेन वित्ते चञ्चुचणी ॥७॥ १। १७५ ॥ विद्याचञ्चुः । विद्याचणः । केशचणः॥ पूरणाद् ग्रन्थस्य ग्राहके को लुक चास्य ॥७॥ १।१७६।। तृतीयान्तात् । द्विका शिष्यः ॥ ग्रहणाबा ॥७।१।१७७॥ गृह्यतेऽनेनेति ग्रहणम् रूपादि । ग्रन्थस्य ग्रहणार्थोत्पूरणप्रत्ययान्तात्कः स्वार्थ तद्योगे च पूरणार्थस्य लुग्वा । दिकं द्वितीयकं वा अन्धग्रहणम् ॥ सस्याद् गुणात्परिजाते॥
RSSASSAURRIP