________________
हेम प्रभा
९७
७ । १ । १७८ तेन कः । सस्यकः शालिः । गुणादिति किम् ? । सस्येन परिजातं क्षेत्रम् ॥ धनहिरण्ये कामे ॥ ७ । १ । १७९ ॥ कः । धनकः । हिरण्यको मैत्रस्य ॥ स्वाङ्गेषु सक्ते ॥ ७ । १ । १८० ॥ कः । नखकः । केशनखकः । दन्तौष्ठकः ॥ उदरे विकणाद्यूने ॥ ७ । १ । १८२ ॥ सक्ते । औदरिकः । अन्यत्रोदरकः ॥ अंशं हारिणिकः ॥ ७ । १ । १८२ ॥ अंशको दायादः ॥ तन्त्रादचिरोद्धृते ।। ७ । १ । १८३॥ कः तन्त्रकः पटः ॥ ब्राह्मणानाम्नि ॥ ७ । १ । १८४ ॥ अचिरोद्धृते कः । ब्राह्मणको नाम देशः । यत्रायुधजीवि - नः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति । आयुधजीवी ब्राह्मण एव ब्राह्मणक इत्यन्ये ॥ उष्णात् ।। ७ । १ । १८५ ॥ अचिरोधृतेऽर्थे को नाम्नि । उष्णिका यवागूः ॥ शीताच्च कारिणि ॥ ७ । १ । १८६ ॥ उष्णादमन्तात्क नाम्नि । शीतं मन्दं करोति शीतकोऽलसः । उष्णको दक्षः ॥ अधेरारूढे || ७ | १ | १८७ ।। वर्तमानात्स्वार्थे कः । आरुशब्दे कर्त्तरि कर्मणि च क्तः । अधिको द्रोणः खार्याः । अधिका खारी द्रोणेन ॥ अनोः कमितरि ॥ ७ । १ । १८८ ।। कः । अनुकामयतेऽनुकः || अभेरीश्च वा ।। ७ । १ । १८९ ॥ कः समुदायेन चेत् कमिता गम्यते । अभिकः । अभीकः ॥ सोऽस्य मुख्यः ।। ७ । १ । १९० ॥ कः । देवदत्तकः संघः । मुख्य इति किम् ? । देवदत्तः शत्रुरेषाम् ॥ शृङ्खलकः करभे ।। ७ । १ । १९१ ॥ कप्रत्ययान्तो निपात्यते । शृङ्खलकः करभः ॥ उदुत्सोरुन्मनसि || ७ | १ | १९२ ॥ उत्कः । उत्सुकः । कालहेतुफलाद्रोगे ॥ ७ । १ । १९३ ॥ स्यन्तादस्येतिकः । द्वितीयको ज्वरः । पर्वतको रोगः । शीतको ज्वरः ॥ प्रायोऽन्नमस्मिन्नाम्नि ॥ ७ । १ । १९४ ॥ स्यन्तात्कः । गुडापूपिका पौर्णमासी ॥ कुल्माषादण् ॥ ७ । १ । १९५ ॥ स्यन्तात्प्रायो ऽन्नमस्मिन्नित्यर्थे नाम्नि । कौल्माषी पौर्णमासी ॥ वटकादिन || ७ | १ | १९६ ।। स्यन्तात्प्रायो ऽन्नमस्मिन्नित्यर्थे नाम्नि । वटकिनी पौर्णमासी ॥ साक्षाद्द्द्रष्टा ।। ७ । १ । १९७ || इन् नाम्नि | साक्षी । प्रायोऽव्ययस्येत्यन्तस्वरादिलोपः ॥ इति क्षेत्राद्यर्थकाः ॥
तडि
प्रक०
९७