SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ भू ३ । काव्यम् ३ । राजादिराकृतिगणः ॥ अर्हतस्तो न्त् च ॥ ७ । १ । ६१ । तस्य भावे कर्मणि च टचगू | आ ६न्त्यम् | अर्हन्ती । अश्वम् । आईत्ता ।। सहायावा || ७ | १ | ६२ ॥ तस्य भावे कर्मणि च यण् । साहायम् । पक्षे साहायकम् । माक्त्वादिति त्वतलौ सहायत्वम् । सहायता ॥ मस्विवणिग्दूतायः ॥ ७ । १ । ६३ ॥ तस्य भावे कर्मणि च । सख्यम् । सखित्वम् । सखिता । वणिज्या । वणिज्यम् । वणिक्त्वम् । वणिक्ता । वाणिज्यम् । दूत्यम् । दूतत्वम् । दूतता । दौत्यम् ॥ स्तेनान्नलुक् च ॥ ७|१|६४ ॥ तस्य भावे कर्मणि च यः । स्तेयम् ४॥ कपिज्ञातेरेयण् ॥ ७ । १ । ६५ ।। तस्य भावे कर्मणि च । कापेयम् । कपिता कपित्वम् । ज्ञातेयम् । ज्ञातित्वम् । ज्ञातिता ॥ प्राणिजातिवयोऽर्थादम् ॥ ७ । १ । ६६ ॥ तस्य भावे कर्मणि च । आश्वम् ३ । कौमारम् ३ ॥ युवादेरन् ॥ ७ । १ । ६७ ॥ तस्य भावे कर्मणि च । यूनो लिंगविशिष्टस्य ग्रहणाद् युवते भावः कर्म वा यौवनम् । युवत्क्म । युवता । स्थाविरम् । स्थविरश्यम् । स्थविरता ॥ हायनान्तात् ।। ७ । १ । ६८ ।। द्वैहायनम् ३ । द्विहायनत्वम् द्विहायता । वयसि तु पूर्वेणाम् || वृवर्णाल्लध्यादेः ॥ ७ । १ । ६९ ।। तस्य भावे कर्मणि चाण । शौचम् ३ । हारीतकम् ३ । पाटवम् ३ । वाधवम् ३ । पैत्रम् ३ । लघ्वादेरिति किम् ? । पाण्डुत्वम् । पुरुषहृदयादसमासे ॥ ७ ॥१॥ ७० ॥ तस्य भावे कर्मणि चाणू || पौरुषम् ३ । हार्दम् ३ । असमास इति किम् ? । परमपुरुषत्वम् । परमपौरुषमिति मा भूत् ॥ श्रोत्रियाद्य लुक् च ॥ ७ । १ । ७१ ॥ तस्य भावे कर्मणि चाण् । श्रौत्रम् । श्रोत्रियत्वम् । श्रोत्रियता । | चौरादिपाठादकमपि । श्रोत्रियकम् ॥ योपान्त्या गुरूपोत्तमाद सुप्रख्यादकम् ॥ ७ । १ । ७२ ॥ तस्य भावे कर्मणि च । अन्त्यस्य समीपमुपोत्तमम् । रामणीयकम् । रमणीयत्वम् । रमणीयता । गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति । आचार्यकम् । गुरूपोत्तमादिति किम् ? | क्षत्रियत्वम् । कायत्वम् । असुमख्यादिति किम् ? । सुप्रख्यत्वम् । सौख्यम् || चौरादेः ॥ ७ । १ । ७३ ॥ तस्य भावे कर्मणि चाकसू । चौरिका । चौरत्वम् । चौरता । एवं धौर्ति
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy