________________
सहि
प्रक०
REGLECRECRUARCOACCURAL
दाहरिष्यते । अपवादैः समावेशार्थः कर्मणि विधानार्थश्चाधिकारः । अगडलादेरिति किम् ? । गाडुल्यम् । कामण्डलवम् । गहुलादेरपि केचिदिच्छन्ति । नञ्तत्पुरुषादबुधादेः ॥७।१।५७॥ प्राक्त्वावतलावेव स्यातामित्यधिकृतं ज्ञेयम् । अशुक्लत्वम् । अशुक्लता अपतित्वम् । अपतिता । अबुधादेरिति किम् !। आवुध्यम् । आचतुर्यम् ।
अबौध्यमिति नअसमासो भवतीत्येके । न भवतीत्यन्ये । ट्यणादिवाधनार्थ सूत्रम् ॥ पृथ्व्यादेरिमन् वा ॥७।१। | ५८ ॥ भावे माक्त्वादित्यधिकारावतलौ च । वावचनादणादिरपि ।। पृथुमृदुभृशकृशदृढपरिवृतस्य ऋतो र:
॥७।४।१९॥ इमनि णीष्ठेयसुषु च । केचित्तु वृढशब्दस्यापीच्छन्ति । अन्त्यस्वरादेः ।। ७।४।४३ ॥ इमनि णीष्ठेयसुषु च लुक् । प्रथिमा । पृथुत्वम् । पृथुता । पार्थवम् । म्रदिमा । मृदुत्वम् । मृदुता । मार्दवम् ॥ प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरबहनपद्राघवर्षवृन्दम् ॥७।४। | ३८ ॥ यथासम्भवं णीष्ठेयसुषु । प्रेमा । दृढादेराकृतिगणात्वादिमन् स्थेमा । वरिमा । गरिमा । बहिमा । त्रपिमा । द्राधिमा । वर्षिमा । वृन्दिमा ॥ स्थूलदरयुवइस्वक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः॥ ७।४ । ४२ ॥ यथासम्भवमिमनि णीष्ठेयसुषु च लुक । इसिमा । क्षेपिमा । क्षोदिमा । उत्तरेणान्त्यस्वरस्यानेनार्यादन्तस्थाया लोपे सिद्धे अन्तस्थादेरिति किमर्थम् ! । अन्त्यस्वरादिलोपं बाधित्वाऽनेनान्तस्थाया एव लोपो माभूत् । केचित्तु स्थूलदरयूनां करोत्यर्थे जो नेच्छन्ति ॥ भूलक चेवर्णस्य ॥७॥ ४ । ४१ ॥ बहोरीयसाविम्नि च ॥ भूमा ॥ वर्णहहादिभ्यष्टयण च वा ॥७।१।५९॥ भावे इमन् । शौक्ल्यम् । शुक्लिमा । शुक्लत्वम् । शुक्लता। शैत्यम् । शितिमा । शितित्वम् । शितिता । शैतम् । दाढर्यम् । इढिमा । दृढत्वम् । दृढता । वाढयम् । बढिमा । दृढत्वम् । वृढता। वैमत्यम् । विमतिमा । विमतित्वम् । विमतिता । वैमतम् ॥ पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ॥७॥ २।६०॥ तस्य भावे टयण । आधिपत्यम् । अधिपतित्वम् । अधिपतिता । एवमाधिराज्यम् ३ । मौढयम् ३ । राज्य
AURAB9%855
९३