SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ShetSHESHSHRUGAG राशि एकस्मिन् उपमानोपमेयभावाभावादुत्तरेण न सिध्यतीति वचनम् । यदा तु सगरादे राज्ञो वृत्तस्याई इदानीन्तन: कश्चिद्राजेति भेदविवक्षा तदोत्तरेणैव सिद्धम् ॥ स्यादेरिवे ॥७।११५२ ॥ क्रियायां यत् । अश्ववद्याति चैत्रः। देववत् पश्यन्ति मुनिम् । क्रियायामित्येव । गौरिव गवयः । देवदत्तवत्स्थूलः इत्यादि तु तुल्यायामस्तो भवतौ पाध्याह्रियमाणायां भविष्यति । ऋचं ब्राह्मणवदयं गाथामधीत इत्यत्र तु सापेक्षत्वान्न प्रत्ययः ॥ मनुर्नभोऽगिरो वति ॥ १।१ । २४॥ पदं न मनुष्वत् । नभस्वत् । अकिरस्वत् ॥ तत्र ।।७।१ । ५३ ॥ इवाथै वत्स्यात् । घुघ्नवरसाकेते परिखा । अक्रियार्थ आरम्भः ॥ तस्य ॥७॥१ ४॥ इवार्थे वत । चैत्रबन्मत्रस्य भूः। अक्रियाविषयसारख्याथ आरम्भः ॥ भावे त्वतल् ॥ ७॥१॥ ५५॥ षष्ठचन्तात् । भवतोऽस्मात् अभिधानप्रत्ययाविति भावः शब्दस्य प्रवृत्तिनिमित्तम् । द्रव्यसंसर्गी भेदको गुणः । तत्र जातिगुणाज्जातिगुणे गोत्वम् । गोता शुक्लत्वम् । शुक्लता । समासकुत्तद्धितेषु सम्बन्धाभिधानमन्यत्र रूढचभिन्नरूपा व्यभिचरितसम्बन्धेभ्यः । राजपुरुषत्वम् । पाचकत्वम् । औपगवत्वम् । रूढयादी तु जातिरेवाभीधीयते । गौरखरस्वम् । गर्गत्वम् । पञ्चालस्वम् । युगपदपत्यजनपदाभिषायिनः पश्चालशब्दानु भावप्रत्ययेन जातिसंहविरभिधीयते । यथा धवखदिरत्वमिति आतिसंहतिः । सत्त्वम् । सत्ता । डित्यादेः स्वरूपे । रित्थत्वम् । एवं गोजाते वो गोत्वं गोतेति गोशब्दस्य स्वरूपम् । एवं देवदत्तत्वं चन्द्रत्वं सूर्यत्वं दिक्त्वमाकाशत्वमभावत्वमिति स्वरूपमेवोच्यते एके तु यहच्छाशब्देषु शम्दस्वरूपं संज्ञासंझिसम्बन्धो वा प्रतिनिमित्त मिति मन्यन्ते । अन्ये तु रित्यत्वं देवदत्तत्वमिति वयोऽवस्थाभेदभिभव्यक्तिसमवेत सामान्य चन्द्रत्वं सूर्यत्वमिति काळापस्थाभेदभिव्यक्तिसमवेतं सामान्य दिक्त्वमाकाशत्वमभावत्वमिति उपचरितमेदव्यक्तिसमवेतं सामान्य प्रत्ययार्थ इति वदन्तोऽप्रापि जातिमेव त्वतलादिमत्ययप्रवृत्तिनिमित्तमभिदधति ॥ त्वते गुणः ॥३॥२॥ ५९॥ परतः स्यनूर पुंवत् पट्ट्या भावः पटुत्वम् । पटुता ॥ प्राक् त्वादगडलादेः ।।७।१।५६ ॥ त्वतलावधिकृतौ ज्ञेयो । तत्रैवो PRAPURPREPAR 9 5 %
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy