________________
प्रक०
SHRSHURDASHRA
125ECOGEOGURUCHACHCHECEOGADC
यंभोगीनः॥ ईनेऽध्वात्मनोः॥७।४। ४८ ॥ अन्त्यस्वरादेर्लुग्न । आत्मनीनः ॥ पञ्चसर्वविश्वाजनात्कमधारये ॥ ७ ॥ १।४१॥ तस्मै हिते । ईनः । पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः । कर्मधारय इति किम् । ! पश्चानाअनाय हितः पञ्जजनीयः॥ महत्सर्वादिकम् ॥७॥१॥ ४२ ॥ जनात्कर्मधारयवृत्तेस्तस्मै हिते । माहाजनिकः । सार्वजनिकः ॥ सर्वाणो वा ॥ ७।१ । ४३ ॥ तस्मै हिते । सार्वः। सर्वीयः॥ परिणामिनि तदर्थे ॥७।१।४४ ॥ चतुर्थ्यन्ताद्धेतौ यथाधिकृतं प्रत्ययः । अङ्गारीयाणि काष्ठानि । शंकव्यं दारु । परिणामिनीति किम् ?। उदकाय कूपः । तदर्थे इति किम् ! । मूत्राय यवागूः । यवागूमूत्रतया परिणमते न तु तदर्था अथवा तदर्थइति चतुर्थीविशेषणम् । तदर्थ या चतुर्थी तदन्तात्प्रत्ययः । इह तु सम्पद्यतौ चतुर्थीति न भवति ॥ चर्मण्यञ् ॥ ७
१। ४५ । चतुर्थ्यन्तात्तदर्थे परिणामिनि । वाघ्रं चर्म ॥ ऋषभोपानहायः ॥ ७।१।४६ ॥ चतुर्थ्यन्तात्परिणामिनि तदर्थे । आर्षभ्यो वत्सः । औपानयो मुझः । चर्मण्यपि परिणामिनि परत्वादयमेव । औपाना चर्म ॥ छदिवलेरेयण ॥७।१।४७॥ चतुर्थ्यन्तात्परिणामिनि तदर्थे । छादिपेयाणि तृणानि । वालेयास्तण्डुलाः । चर्मण्यपि परत्वादयमेव । छादिषय चर्म । औपधेय इति तूपधेयशब्दात्स्वार्थिक प्रज्ञायणि भविष्यति । अत उपधेः स्वार्थ एयणिति नारम्भणीयम् । परिवाऽस्य स्यात् ।। ७।१।४८ ॥ अस्मात्स्यन्तात्षष्ठयर्थे परिणामिनि एयण सा चेत्सम्भाव्या । पारिखेय्य इष्टकाः । पारिणामिनीत्येव । परिखास्य नगरस्य स्यात् ।। अत्र च ॥७॥१॥ ४९ ।। परिखायाः स्यादिति सम्भाध्यायाः स्यन्तायाः सप्तम्यर्थे एयण् । पारिखेयी भूमिः ॥ तद् ॥ ७।१।५० ॥ स्यन्तात्स्यादिति संभाव्यात्पष्ठधर्थे परिणामिनि सप्तम्यर्थं च यथाधिकृतं प्रत्ययः । प्राकारीया इष्टकाः। परशव्यमयः। मासादीयो देशः॥ ॥ इतीयाधिकारः॥
तस्याहे क्रियायां वत् ॥७।१।१॥राजवद्वन्तं राज्ञः । क्रियायामिति किम् ? । राज्ञोऽहोमणिः ।